अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2017, कुल 2600 में से
संदर्भ में पढ़ें३५६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ३ अ० १६ सू० ४३. प्रदानवदेव तदुक्तम् ॥ ४३ ॥ (३-३-१६.) अथेवं विचार्यते । सर्वात्मभावो विहितकर्मज्ञानभक्तिसाध्यः, न वेति । तत्र पुराणे 'तस्मात् त्वमुद्धवोत्सृज्ये'त्युपक्रम्य, 'मामेकमेव शरणमात्मानं सर्व- देहिनाम् । याहि सर्वात्मभावेन यास्यसे ह्यकुतोभय'मिति वाक्ये मुक्त्यात्मका- कुतोभयसाधनरूपशरणगमने प्रकारत्वेन सर्वात्मभावस्य कथनेन स्वप्रयत्नसाध्यत्वं गम्यते । अतः साधनसाध्य इति पूर्वः पक्षः । तत्र सिद्धान्तं वक्तुं तदुपदेशस्वरूपमाह प्रदानवदिति । यद्ययं साधनोपदेशः स्यात्, स्यात्तदा साधनत्वेन सर्वात्मभावेन शरणप्राप्तेः स्वकृतिसाध्यत्वम्, न त्वेवम्, किन्तु, तदुक्तं भगवदुक्तम् । प्रदानवत् । प्रकृष्टं दानं प्रदानं वरदानमिति