अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2019, कुल 2600 में से
संदर्भ में पढ़ेंपूर्वमज्ञानेनेप्सितत्वासम्भवेपि स्वत एव कृपया ऽदानमिति वदित्युक्तम् । अथवा । 'सर्वात्मभावेन मां याही'ति सम्बन्धः । यद्वा । प्रदानवद्वित्यस्य पूर्ववदेव व्याकृतिः । तत्र साधनासाध्यत्वे प्रमाणमाह तदुक्तमिति । 'नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्य' इति श्रुत्या वरणातिरिक्तसाधनाप्राप्यत्वमुक्तयत इति तत्तथैवेत्यर्थः । भाष्यप्रकाशः । सिद्ध्यति, न तु सर्वात्मभावसेत्यतो वाक्यस्य योजनान्तरमाहुः अथेत्यादि । शरणपदं मामित्यस्य विशेषणम् । तथाच सर्वात्मभावसैव प्रदानतुल्यत्वं निराबाधमित्यर्थः । यद्यपि 'गतेरर्थवत्त्व'मित्यारभ्य सर्वोपि वरणश्रुतेरेव प्रपञ्चः, तथाप्यत्र पुराणवाक्यमात्रस्य विषयत्वेनो- पन्यासेनापाततः पौराणत्वशङ्का अस्य विचारस्य स्यादिति तन्निरासाय सूत्रार्थं प्रकारान्तरेण