अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2021, कुल 2600 में से
संदर्भ में पढ़ेंनोपदिष्ट इति सिध्यति । तत्र परमासक्तिश्चानन्दजन्यैव । लोके आनन्दजनक एवासक्तिदर्शनात् । एवं च यत् यज्जनकम्, तत्तद्गुणकं तत्तदात्मकं चेति व्याप्तेः पूर्वं सिद्धत्वात् । 'सर्वोऽपि आत्मनो भाव' इति सुबोधिन्यां व्याख्यानात् । श्रुतौ निरवद्यानन्दरूपत्वेन रसरूपत्वेन पुत्रादिभ्योऽपि प्रेयस्त्वेन च सिद्धस्यात्मनो यो भावो धर्मः प्रियत्वाख्य आनन्दात्मा, यन्मात्रां सर्व उपजीवन्ति, स सर्वस्तदंशिभूतो भगवद्धर्म ऐश्वर्यादिवदतिरिक्त एव ज्ञेयः । तस्य दानं त्वानुभावनम् । युक्तं चैतत् । अन्यथा सर्वेषामेव तथा स्फुरेदिति । अतो विगाढभावेन इति सूत्रेण आत्मसर्वभाव इत्यापत्तिः । सर्वं च आत्मा च भावश्चेत्येतेषां समाहार इति समाहारद्वन्द्वोपि न । नपुंसकत्वापत्तेः । अव्ययीभावोपि न । अव्ययीभावश्चेत्यव्ययप्रसङ्गात् । द्विगुरपि न । सङ्ख्यापूर्व- त्वाभावात् । शरणेति । पूर्व