अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2023, कुल 2600 में से
संदर्भ में पढ़ें३६२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ३ अ० १६ सू० ४३. भाष्यप्रकाशः । रसरूपतायाः प्रतिपादितत्वादस्याः श्रुतेरुक्तविध एवार्थ इति निश्चीयते । ततश्च तत्र योऽर्थो 'न बिभेति कुतश्चने'ति वाक्येनोक्तः, सोऽत्राकुतोभयपदेनोच्यत इति नात्र त्वदुक्तयुक्ति- गन्धोपि । किञ्च । भगवद्वाक्येपि 'अथैतत्परमं गुह्यं शृण्वतो यदुनन्दन । सुगोप्यमपि वक्ष्यामि त्वं मे भृत्यः सुहृत् सखे'ति तादृशेऽधिकारिणि परमगोप्यकथनं स्वत एव प्रतिज्ञाय, 'केवलेन हि भावेन गोप्यो गावः खगा मृगाः । येऽन्ये मूढधियो नागाः सिद्धा मामीयुरञ्जसे'ति श्लोके भावेन बहूनां स्वप्राप्तिमुक्त्वा, ततः को भाव इत्याकाङ्क्षायाम्, 'रामेण सार्धं मधुरां प्रणीत' इत्यादिश्लोकचतुष्टयेन भावस्य भक्तिरूपं स्वरूपं ज्ञापयितुं विगाढभावात्मिकां तत्काष्ठाम्, तया काष्ठया परब्रह्मरूपस्वप्राप्तिं स्वरूपज्ञानाद्यभाववतां बहूनामुक्त्वा, तदनन्तरं 'तस्मा'दित्यादिवाक्यद्वयेन स्वप्राप्त्यकुतोभयाप्ती अवदत् । तेनोक्तश्रुत्युक्तरसात्मकब्रह्मानुभवोत्तर- कालीनतैवाकुतोभयस्य स्फुटतीति न पूर्वोक्तार्थे द्रविडमण्डकमित्यर्थः । अत्र सर्वात्मभावस्य वरणातिरिक्तसाधनासाध्यत्वनिरूपणेन इतरत्र वैराग्यबोधकस्य त्यक्तपिप्पलमित्यस्य विशेषण- स्यार्थो बोधितो ज्ञेयः । अन्ये तु । वाजसनेयकादौ व्रतमीमांसादावध्यात्मधिदैवतयोः श्रावितौ प्राणवायू पृथगुपगन्तव्यावपृथग्वेति सन्देहे, तत्त्वाभेदादपृथगिति प्राप्तौ, आध्यानार्थादुपदेशभेदात् पृथगिति सिद्धान्तयन्ति । स च निरूपणप्रकारभेदेन 'नानांशब्दा'दिति सूत्रेण च सिध्यतीति नेदं सूत्रमाकाङ्क्षतीति दिक् ॥ ४३ ॥ इति षोडशं प्रदानवदित्यधिकरणम् ॥ १६ ॥ रश्मिः। तल्लेखे विवृतोऽयं न्यायः । रसरूपताया इति । 'रसो वै स' इति श्रुतेरित्यर्थः । 'रस आस्वादने' इत्यस्य रूपम् । व्याख्यानान्न तु 'रस शब्द' इत्यस्य । अस्तु । ईश्वरत्वात् । तादृशे भृत्यादिसदृशे । स्वत एवेति । उद्धवप्रश्नं विना प्रतिज्ञा कृपालुत्वं द्योतयति । तत्काष्ठामिति । भावप्रकर्षम् । 'काष्ठा दारुहरिद्रायां कालमानप्रकर्षयो'रिति विश्वात् । परब्रह्मेति । 'मत्स्वरूपविदोबलाः । ब्रह्म मां परमं प्रापुः सङ्गाच्छतसहस्रश' इति वाक्याद्बहूनां शतसहस्राणामित्यर्थः । नेति । मुक्तिस्कन्ध- सर्वस्वत्वाच्च । वरणेत्यादि । वरणजसर्वात्मभावातिरिक्तानि साधनानि तैर साध्यत्वनिरूपणेनेत्यर्थः । मध्यमपदलोपी समासः । इतरत्रेति । साधनेषु षोडशाधिकरण्या विशेषणमाहुः त्यक्तेति । त्यक्तं पिप्पलं कर्मफलं येन वैराग्यमेतत् । कर्मफलं पिप्पलस्य सुबोधिन्यामुक्तम् । अन्ये त्विति । शङ्कराचार्यादयः । तत्त्वेति । 'यः प्राणः स वायु'रितिश्रुतेः । आध्यानेति । आध्यानार्थो ह्ययमाध्यात्मिकाधिदैवभागोपदेश इति शङ्करभाष्यात् । ननु निरूपणं प्रकारभेदेपि 'यः प्राण' इत्युक्तश्रुतेः प्राणवाय्वोर्निरूपणप्रकाराभेदान्न सिध्यतीति पाक्षिकदोषशङ्कायामाहुः नानेति । इदं सूत्रं वक्ष्यमाणम् । न च नानाशब्दादिभेदादिति सूत्रे यः प्राणः स वायुरितिवदुपास्यभेदो नास्तीति शङ्क्यम् । तत्रोपास्याभेदेपीति भाष्यात् । सूत्रार्थस्तु प्राणवायू आध्यानार्थं पृथगुपगन्तव्यौ एकादशकपालप्रदानवत् । यथा 'इन्द्राय राज्ञे पुरोडाशमेकादशकपालमिन्द्रायाधिराजायेन्द्राय स्वराज्ञे' इत्यत्र पुरोडाशनिष्पत्तौ राजादिगुणभेदात् यथान्यासमेव देवतापृथक्त्वात् प्रदानपृथक्त्वं भवति । एवं तत्त्वाभेदेपि आध्येयांशपृथक्त्वात् आध्यानपृथक्त्वम् । तदुक्तं संकर्षे 'नाना वा देवता पृथग्ज्ञाना'- दिति । संकर्षो देवताकाण्डं तत्रेत्यर्थः । वाकारोऽवधारणे ॥ ४३ ॥ इति षोडशं प्रदानवदित्यधि- करणम् ॥ १६ ॥ 1898