अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2024, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ३६३ लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि ॥ ४४ ॥ ( ३-३-१७. ) ननु प्रतिबन्धककालादृष्टादिसद्भावेपि वरणकार्यं स्यात्, उत तन्निवृत्ताविति संशये, प्रतिबन्धकाभावस्य सर्वत्र हेतुत्वात् तन्निवृत्तावेव तथेति पूर्वपक्षे, सिद्धा- न्तमाह लिङ्गेत्यादिना । सामोपनिषत्सु नवमे प्रपाठके सनत्कुमारनारदसंवादे प्रथमत एव मुख्या ब्रह्म- भाष्यप्रकाशः। लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि ॥ ४४ ॥ पूर्वाधिकरणे सर्वात्मभावरूपाया मुख्यभक्तेर्वरणैकलभ्यत्वं स्थापितम्, वरणश्रुतौ तु परमात्मनो वरणैकलभ्यत्वमुच्यते, न तु सर्वात्मभावस्येति कथमस्य तत्प्रपञ्चत्वमिति शङ्कायां तस्य वरणैकलभ्यत्वं पुनर्द्रढीकर्तुं तत्स्वरूपं च श्रुत्या विवेक्तुमधिकरणान्तरं प्रणयतीत्याशयेन तदवतार