भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2026, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2026

मां भगवाञ्छोकस्य पारं तारयत्वि'ति नारदेनोक्तः सनत्कुमारः पूर्वस्मात्पूर्वस्माद् भूयो वदेति पृष्टः, भूयःपदमधिकार्थकम्, नामवाङ्मनःसङ्कल्पचित्तध्यानविज्ञान- बलान्नापस्तेजआकाशस्मराशाप्राणान् ब्रह्मत्वेनोपासनाविषयत्वेनोक्त्वा, प्राणो- ब्रह्मत्वेनोपासनं तत्फलं च पूर्ववदुवाच, तत्र भूयःपदं न बाहुल्यार्थकम्, नापि पुनरर्थकम्, किन्त्वाधिक्यार्थकम्, आधिक्यमुत्कर्षस्तदर्थकमिति तत्तन्माहात्म्यकथनादवसीयते, एवं नामवाङ्मा- नःसङ्कल्पचित्तध्यानविज्ञानबलान्नापस्तेज आकाशस्मराशा उक्ताः। तत्र नामवाचौ प्रसिद्धौ, मनो मननव्यापारविशिष्टमन्तःकरणम्, मननव्यापारश्च विवक्षात्मकः। सङ्कल्पोपि कर्तव्या- कर्तव्योर्विषयसमर्थनरूपस्तादृशान्तःकरणस्यैव वृत्तिविशेषः। चित्तं चेतयितृत्वं प्राप्तकालानुस- न्धानवत्त्वम्, अतीतानागतविषयप्रयोजननिरूपणसामर्थ्यं च। ध्यानं शास्त्रोक्तदेवतालम्बनो विजातीयानन्तरितः प्रत्ययसन्तान एकाग्रतापरपर्यायः। चिरकालस्थायिज्ञानवादे तु तादृश एक एव प्रत्ययो बोध्यः। विज्ञानं शास्त्रार्थविषयकं विशिष्टज्ञानम्। बलं अन्नभक्षणजनितं मनसो विशेयविभावनसामर्थ्यम्। अन्नमापस्तेज आकाशश्च प्रसिद्धाः। स्मरः स्मरणं अप्रयत्नश्चित्तव्यापारः। आशा अप्राप्तवस्त्वाकाङ्क्षा तृष्णाकामाद्यपरपर्याया। एवमेतेषां स्वरूपमुपनिषद्व्याख्यानादवग- न्तव्यम्। एतेषामत्र ब्रह्मत्वेनोपासनमुक्तम्, प्राणस्य त्वाशातो भूयस्त्वं माहात्म्यं चोक्त्वा, 'स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नतिवादी'त्यनेन तद्दर्शनादिमतोऽतिवादित्वं यद्यप्युक्तम्, तथापि तत्र विद्याया अपर्यवसानादग्रे जन्यप्रायपाठे 'आत्मतः प्राण' इति श्रावणाच्च सोऽत्र परतत्त्वेन नाभिप्रेतः, किन्त्वासन्यत्वेन। स चोक्तमाहात्म्यवत्त्वादपहतपाप्मत्वाच्चान्येभ्य उक्तेभ्य उत्कृष्ट इति तेभ्योऽप्युत्कृष्टवादित्वमेवातिवादित्वम्, न तु परमकाष्ठापन्नोत्कृष्टवादित्वरूपं तदिति सोऽपि ब्रह्मत्वेनोपास्यतयैवाभिप्रेतः। तदेतदभिसन्धाय भाष्ये प्राणोपि तथोपास्य- मध्ये गणितः प्राणान् ब्रह्मत्वेनोपासनाविषयत्वेनोक्तेवेति। श्रुतौ तथानुक्तिस्तु नारदस्य मुख्यविद्याग्रहणयोग्यता जाता न वेति परीक्षार्थम्। अत एवाग्रे 'तं चेद् ब्रूयुरतिवाद्यसीति, अतिवाद्यस्मीति ब्रूयान्नापह्नुवीते'त्युक्त्वा, 'एष तु वा अतिवदति, यः सत्येनातिवदती'ति यती'ति श्रुतेः। 'दिवं च पृथिवीं च वायुं चाकाशं चे'ति श्रुत्या रूपविज्ञापकलम्। वाङ्माहात्म्यं वाग्देवत्वम्। ब्रह्मत्वेनेति। 'तत्रास्य कामचारो भवति, यो वाचं ब्रह्मेत्युपास्ते' इति श्रुतेः। अत्र भूयःपदं 'भूयः पुनः पुनः ख्यातं प्रभूतार्थे त्वनव्ययम्। निश्चये च निषेधे च साकल्यातीतयोरपी'ति विश्वादनेकार्थमिति तदर्थं निश्चिक्युः तत्रेति। अथेति। तथा च श्रुत्या पूर्वोक्तार्यबाधात् नाम- नारायणादितो लक्षणया बोलकर्षकमिति भावः। विषयेति। विषयो यस्य यो ज्ञातः स तस्य प्रयोजनं फलम्। प्रत्ययसन्ताने स्वमतमाहुः चिरेति। बलमिति। विज्ञानानन्तरं स्नेहरूपबलस्यापि वक्तुं शक्यत्वेपि ह्यनुग्रहादीनां विशेषकारणानामनुक्तेः प्रसिद्धमेव बलमुररीकृतम्। तथा च भाष्यम्। ज्ञात एव स्नेह इति। बलं भक्तिरिति च। यद्वा। अन्नाप्तेजआकाशस्मराशाकाङ्क्षाणामग्र आधिक्येन वक्ष्यमाणत्वात् तेषां चानन्दमयाधिकरणोक्तरीत्या वक्तव्यत्वात् बलं भक्तिर्वा। जगति भक्तिः स्वांशब- लत्वेन भवति। च प्रसिद्धा इति। चकारेणानन्दमयाधिकरणे प्रसिद्धाः। न चाप्रयोजकत्वम्। शास्त्रार्थविषयकविशिष्टज्ञानाद्भूयस्त्वात्। माहात्म्यमिति। देवत्वम्। अतिवादित्वमिति। अग्रे स्पष्टम्। अपरीति। अग्रे ततोपि भूयः प्रश्नोत्तराभ्याम्। तथेति। ब्रह्मत्वेन। वदानीति लङर्थे लोड् 1901