अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2027, कुल 2600 में से
संदर्भ में पढ़ें३६६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० ३ अ० १ सू० ४४. पासकस्यातिवादित्वं सत्यवादित्वेनोक्त्वा, विजिज्ञासितव्यत्वेन सत्यविज्ञानमति- श्रद्धा निष्ठाकृति सुखानि पूर्वपूर्वकारणत्वेनोत्तरोत्तराण्युक्त्वा, सुखस्वरूपजिज्ञासा- यामाह 'यो वै भूमा तत्सुख'मिति । भूम्नः स्वरूपजिज्ञासायामाह 'यत्र नान्यत् पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमे'ति । भाष्यप्रकाशः। प्राणोपासकस्यातिवादित्वं सत्यवादित्वेनोक्तम् । यद्येवं शिष्टप्रयोगेऽसाधिकजिज्ञासोत्पत्स्यते, तदा योग्यः, नो चेदयोग्य इत्येतदर्थमेवमुक्त्वा, ततो नारदेन प्राणस्य तत्त्वं न प्राणः, किन्त्वन्यदिति बुद्ध्वा, 'सोऽहं भगवः सत्येनातिवदानी'ति साभिप्राय उक्तः, तत्र 'अतिवदानी'त्यन्तर्भावितसन्नर्थः । सत्येनातिविवक्षामीत्याशयात् । तदा सनत्कुमारः 'सत्यं त्वेव विजिज्ञासितव्य'मित्यादिना तस्य सत्यादिजिज्ञासामुत्पाद्य, विजिज्ञासितव्यत्वेन सत्यविज्ञानमतिनिष्ठाकृतिसुखानि पूर्वपूर्वकारण- त्वेनोत्तरोत्तराण्युक्तवान् । तत्र सत्यं अर्थमनतिक्रम्य स्थितं वस्तुस्वरूपम्, विज्ञानं तद्विषयकं विशिष्टज्ञानम्, मतिस्तर्केण तदर्थस्वरूपविचारः, श्रद्धा आस्तिक्यबुद्धिः, निष्ठा तद्विषयक आदरस्तत्परत्वरूपः, कृतिस्तद्विषयसाधनानुकूल इन्द्रियव्यापारः, सुखं अनुकूलबुद्धिवेद्य आन्तरो धर्म इत्येवं लौकिकसमानाकारं तत्स्वरूपं ज्ञातव्यमिति सत्यादिषु कृत्यन्तेषु विशेषाकथनादायातीति तथोक्त्वा, ततः सुखे विशेषं वक्तुं सुखस्वरूपजिज्ञासायामाह । 'यो वै भूमा तत् सुखं नाल्पे सुखमस्ति भूमैव सुखं भूमा त्वेव विजिज्ञासितव्य' इति भूम्नो विचार्यत्वमुक्तम् । तेन प्राणस्य सत्यवदनादीनां च स एव कारणं तत्त्वं च, अतस्तमेव कृत्यादिप्रणाल्या ज्ञात्वा, सत्यवदनेऽति- वादित्वम्, नान्यथेत्यवगत्य, किंखरूपो विचार्य इत्याकाङ्क्षायां पप्रच्छ 'भूमानं भगवो विजिज्ञास' इति । एवं नारदस्य भूमस्वरूपजिज्ञासायामाह 'यत्र नान्यत् पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमे'ति । इह यच्छब्दगतसप्तम्या अधिकरणार्थत्वे ब्रह्मणो व्यापकत्वेन सर्वेषां तदुपश्लिष्टतया तद्व्याप्यतया च सर्वेषां सर्वदान्यज्ञानाभावापत्तेः सप्तम्याः सत्यर्थत्वेऽपि ब्रह्मणः सर्वत्र सत्त्वेन सर्वस्य तथात्वापत्तेश्चात्र कश्चिद्विशेषो वाच्यः । तथाच यस्मिन् दृष्टे श्रुते विज्ञाते सति द्रष्टुः रश्मिः। छान्दसः । विवक्षामीति व्याख्यानात् । उपनिषद्द्व्याख्यानाच्च । कृत्यादीति । कृतेरादिभूताया प्रणाल्या । ज्ञात्वेति । 'भूमा त्वेव विजिज्ञासितव्य' इत्यत्रैवैकारः सर्वत्र, नत्वेवंकारः । अतः कृत्या- दिप्रणाल्या तदुक्तिवैयर्थ्यपरिजिहीर्षया ज्ञात्वा विजिज्ञास इत्यत्रेच्छाविषयज्ञानं यत् तद्विषयीकरणं भूम्नः प्रतीयत इति । आहेति । मूललक्षणमाह । औपश्लेषिकवैषयिकाभिव्यापकाधारेषु वैषयिका- धाराङ्गीकारो न सम्भवति, ह्यन्यपदार्थस्य विषयत्वादिति शङ्कायां यत्रेति सप्तम्याः सतिसप्तमीत्वं समर्थयाम्बभूवुः इहेत्यादिना । अन्यज्ञानाभावापत्तेरिति । न च ब्रह्मणो होपश्लिष्टत्वेऽपि व्याप्य- त्वेपि 'पश्यन् चक्षुर्भवती'त्यादिरीत्या चिक्रीडिषया वा पुराणमते मायया वा न सर्वेषां सर्वदान्यज्ञाना- भावापत्तिरिति वाच्यम् । भूमाधिकरणे भूम्नो ब्रह्मत्वेन सिद्धस्तात्र ज्ञानप्रकारविशेषनिरूपणे ज्ञानेनाज्ञान- निवृत्त्या तथात्वापत्तिः जीवस्य ब्रह्मभेदात् । भेदे तु अचलत्वसूत्रोक्ताभासे भक्तमनोरथपूरकत्वात् भगवतश्चक्षुर्भवनादीनां नित्यलीलास्थानां 'आत्मत आविर्भावतिरोभावा'विति श्रुतेर्भक्ताधीनात्मतो भवनाद्ब्र- ह्मस्वरूपस्यात्मनो लीलाप्तसंकल्पपदार्थरूपत्वेन लीलास्थानां सर्वेषां सर्वदान्यज्ञानाभावापत्तिः, न तु प्रपञ्च- स्थानामपीत्यदोषात् । तथात्वे । पूर्वोक्तदिशा सर्वस्य निरधिष्ठस्य नित्यलीलास्थस्य च तथात्वं सर्वदा- न्यज्ञानाभावापत्तिमत्त्वं तस्यापत्तेः । कश्चिद्विशेष इति । आशङ्कोत्तरणोपपादनं वाच्यः । तथा चेति । पूर्वोक्तप्रकारे सति । सतीति । न च 'फले सप्तमी यत्रे'त्यत्र यत्फलकोन्यदर्शनाभाव इति कर्मणोऽ- 1902