भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2028, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2028

श्रोतुर्विज्ञातुरन्यविषयकदर्शनश्रवणविज्ञानाभावो भवति, स भूमेति लक्षणकथनेन नित्यनिरवधि- सुखरूपं तत्स्वरूपं स्वेतरस्मिन् सुखत्वसुखसाधनत्वज्ञानाभावजननं तत्कार्यं चेति सिद्ध्यति । तेनैवं स्वरूपकार्यलक्षणयुक्तं विचार्यमिति फलति । तत्र भूम्नि दृष्टे श्रुते विज्ञातेऽन्यदर्शनादिकं कुतो न भवति, किं विशेषदर्शने रजतादिकमिवान्यन्नश्यति, उत कारणे कार्यमिव भूम्न्य- न्यल्लीयते, अथवा सूर्यतेजोनक्षत्रादिकमिव भूमा अन्यत्तिरस्करोतीति शङ्कायामाह 'अथ यत्रा- न्यत् पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पम्, यो वै भूमा तदमृतम्, अथ यदल्पं तन्म- र्त्य'मित्यनेन । अनित्यत्वे सति सावधिसुखरूपत्वे सत्यन्यत्र सुखत्वसुखसाधनत्वज्ञानजनक- त्वमल्पसुखत्वमिति सिद्ध्यति । तथाच न पूर्वविकल्पितं किञ्चिद्भवति, अपि तु भूम्नि दृष्टे श्रुते विज्ञाते तदानन्दैकतानतया अन्यदल्पं न सुखत्वेन सुखसाधनत्वेन च पश्यति, न शृणोति न विजानातीत्यर्थः सिध्यति । तत्र ननु यदि भूम्नो दर्शनश्रवणविज्ञानेष्वन्यतमेनैवं भाव आनन्दैक- तानत्वरूपः, तर्हि शृण्वतो मम कुतो नास्ति । अथ समुदितैस्तैस्तदा यत्र भूमा स्वरूपं स्वकार्यं च प्रकाशयंस्तिष्ठति, तस्यैव भावो नान्यस्येत्याशयः, तदा स आधारो वक्तव्य इत्याशयेन पृच्छति 'स भगवः कस्मिन् प्रतिष्ठित' इति, उक्तरीत्या कमभिव्याप्य स्थित इत्यर्थः । तत्रोत्तरमाह 'स्वे महिम्नी'ति । स्वविभूतौ । अत्रापि को महिमेत्याशङ्का भविष्यतीति तद्वारणार्य स्वयमेवाह न्यस्य फलेन यच्छब्दार्थेन समवायादिति वाच्यम् । अन्यदर्शनाभावस्य सुषुप्तावपि सत्त्वेनात्मा फलं स्यादिति तत्फलं तु भक्त्येकसाध्यत्वात् । न च भक्तिप्रकरणादन्यदर्शनाभावो भक्तिरेवेति तस्यात्मा फलं कथं न भवतीति वाच्यम् । अत्रार्थेऽन्येषां रामानुजाचार्यादीनामसंमतेर्वक्ष्यमाणत्वात् । 'सर्वं हि पश्यः पश्यती'ति श्रुतिविरोधाच्च । न च सुषुप्तिलक्षणे दृष्टे विज्ञाते इति कुतो लब्धमिति वाच्यम् । एतादृशविशेषणमन्तरा कस्मिन्नर्थे सप्तमीत्यपि वाच्यम् । सत्यर्थे सप्तमीति चेत् । सुषुप्तिर्व्याक्रियताम् । ननु सुषुप्तौ व्याक्रियमाणायां शङ्करभाष्यपूर्वपक्षस्य सिद्धान्तीकरणात् सम्प्रदायप्रदीपोक्ता भगवदाज्ञा से- त्स्यति शङ्कराचार्यमतस्था मन्मतं पूर्वपक्षयन्ति तत्त्वं सिद्धान्तयेत्याकारिकेति चेत्, न । अहङ्कारादेशात् । 'अथाहङ्कारादेश' इति वक्ष्यमाणश्रुतेः । तस्य तुरीयग्राहकत्वं प्रतिभाति । चित्तस्य सुषुप्तिग्राहकत्वात् । तथाच 'अशक्ये हरिरैवास्ति मोहं मा गाः कथञ्चन' इति वाक्यान्न दोषः । किञ्च । सर्वस्य तथात्वापत्ते- श्चेत्युक्तदोषाच्च । तथाच श्रुतिः 'सर्वं हि पश्यः पश्यती'ति । अत्र रामानुजमाध्वभास्कराचार्या भिक्षुशैवौ च भगवन्तौ 'यत्र नान्यत् पश्यत्यादे'र्भूमातिरिक्तावदर्शननिषेधो नार्थः, किन्तु निरवधि- सुखरूपे ब्रह्मण्यनुभूयमाने ब्रह्मस्वरूपतद्विभूत्यन्तर्गतत्वात् कृत्स्नस्य वस्तुजातस्यैश्वर्यविशिष्टब्रह्मभिन्नत्वेन न पश्यतीति । एतदेवोपपादयति वाक्यशेषः । 'स वा एवं पश्यन्नेवं मन्वान' इत्यादिः । अग्रे 'न पश्यो मृत्युं पश्यति, न रोगं नोत दुःखताम्, सर्वं हि पश्यः पश्यति सर्वमाप्नोति सर्वश' इति मन्त्रश्चेति वदन्ति । पूर्वोक्ताविरुद्धमेतत् । भूमाधिकरणभाष्यप्रकाशे एतदुक्तम् । इतीति । इति स्वरूप- लक्षणं कार्यलक्षणं च सिध्यतीत्यर्थः । किमित्यादि । विशेषदर्शनम् । नेदं रजतमित्याकारकं रजतादिकम्, शुक्ताविदं रजतमिति । आदिना रज्जौ सर्पोऽयमिति । नायं सर्पः, रज्जुरेवेति विशेषदर्शनम् । कारणे जले कार्यं पृथिवी । स्वेति । विभूत्यध्यायोक्तायाम् । अत्रापीति । १. संपद्यते । २. तदेकतानतारूपः । 1903