अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2029, कुल 2600 में से
संदर्भ में पढ़ें१६८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० ३ अ० १७ सू० ४४. भाष्यप्रकाशः। 'यदि वा न महिम्नीति गो अश्वमिह महिमेत्याचक्षते हस्तिहिरण्यं दासभायं क्षेत्राण्यायतना- नी'ति । तथाचैतेषु तत्प्रतिष्ठाया अदर्शनात्कथमेतदिति शङ्कां मा कृथाः । तत्र हेतुमाह 'नाहमेवं ब्रवीमी'ति । एतादृशे महिम्नि प्रतिष्ठित इत्यहं न ब्रवीमि । तर्हि क्व प्रतिष्ठित इत्यत आह 'ब्रवीमीति होवाच अन्यो ह्यन्यस्मिन् प्रतिष्ठित' इति । अत्र 'इति होवाचे'ति श्रुतिवाक्यम्, शेषं सनत्कुमारस्य । तथाच गोअश्वादिभ्योऽन्यो महिमा तस्मिन् प्रतिष्ठित इति । तथाच लौकिकमहिम्नभिन्नः स्वे आत्मीये वृते भक्ते योऽथवा स्वामिन्नो यो महिमा तस्मिन्नु- क्तरीत्या स्थित इत्यर्थः । अतस्तेनापि प्रकारेण विचार्य इत्यर्थतः सिध्यति । तर्हि, स कीदृग् केन तत्रैव प्रतिष्ठित इत्याकाङ्क्षायां तं विवृणोति 'स एवाधस्तात् स उपरिष्टात् स पश्चात् स पुरस्तात् स दक्षिणतः स उत्तरतः स एवेदं सर्व'मित्यारभ्याग्रेऽहंकारादेशं तत आत्मादेशं च पूर्ववत् 'आत्मैवेदं सर्व'मितीत्यन्तम् । तथाच यस्य पूर्वं 'स एवाधस्ता'दित्याद्युक्तरीत्या सर्वदिक्षु भूमभानं सर्वं परिदृश्यमानं भूमेति च भानम् । अथ तदनन्तरम्, अत एत- स्माज्ज्ञानाद्देवोरहंकारादेश एव पूर्ववद्भूमाभिन्नस्वभानम् । अथ तदनन्तरम्, अतस्तादृशभानाद्धेतो- रात्मादेश एव पूर्ववद्भूमाभिन्नात्ममानमिति । एवं प्रकारकभानवान् यः स पुरुषस्तत्र यो महिमा रश्मिः। विभूतिष्वपीत्यर्थः । अस्येति । नारदस्य । स्वयं सनत्कुमारः । यदि वा नेति । यदि वा परमार्थत आधारं पृच्छसि तर्हि ब्रूमः । महिम्नि गो अश्वं गवाश्वं तदादिरूपे महिम्नि । नेति । न प्रतिष्ठित इतीत्यर्थः । कथमेतदिति । कथं केन प्रकारेण । 'स्वे महिम्नी'ति श्रुतिवाक्यमित्यर्थः । न ब्रवीमीति । अन्ये ज्ञानिनस्तु ब्रुवन्तीत्यर्थः । अन्यज्ञानिनां परमार्थः गीताविभूत्यध्याये । 'धेनुनामस्मि कामधुक्' 'उच्चैःश्रवसमश्वानाम्' 'ऐरावतं गजेन्द्राणाम्' 'श्रीमदूर्जितमेव वा' 'रुद्राणां शङ्करश्चास्मि' 'देवर्षीणां च नारदः' 'सिद्धानां कपिलो मुनिः' 'कीर्तिः श्रीर्वाक् च नारीणां स्मृतिर्मेधा धृतिः क्षमा । विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्' इत्येतेषु वाक्येषु गवाश्वादीनां श्रीकृष्णविद्विभेदः । अत एव 'ह्यन्यो ह्यन्यस्मिन् प्रतिष्ठित' इति श्रुतेर्ज्ञानिनो भूमा तु स्वतो न भिन्न इति भावं वदन्ति । सर्वालंभावरूपमुख्यभक्तिप्रकरणाङ्कतानामुक्तश्रुतिप्रतिपाद्यपरमार्थमाहुः तथा चेति । गवाश्वादिभ्योऽन्यो महिमा यस्तस्मिन् तद्रूपेऽन्यस्मिन् प्रतिष्ठित इति । हि युक्तश्चाय- मर्थः । ज्ञानमार्गीयादर्याद्भिन्नाः । ननु ज्ञानमार्गीयार्थो भक्तिमार्गीयो वेति चेत् । न । महाभाष्ये 'चत्वारि शृङ्गा त्रयोऽस्य पादा द्वे शीर्षे सप्त हस्तासो अस्ये'ति श्रुतेर्निरुक्तावाशुशुक्षणपरत्वेन व्याख्यातापि शब्दपरत्वेन व्याकरणदत्रापि ज्ञानमार्गपरत्वेन व्याकृता भक्तिमार्गपरत्वेन व्याकृतेति । स्वामिन्न इति । स्वं भगवान् । उक्तेति । उक्ता 'अन्यो ही'त्यादिश्रुत्योक्ता रीतिस्तया । श्रुति- प्रामाण्यात् स्वस्मिन्नपि (स्वयं) स्थित इत्यर्थः । अस्मिन् पक्षे 'अन्यो ही'त्यादिश्रुत्यर्थः स्पष्टः । भूमा तु स्वतो न भिन्न इति भावः । स इति । महिमा । श्रुतौ स इति भूमा । पूर्ववदिति । 'अहमे- वाधस्ता'दित्यादिपूर्ववत् । 'आत्मैवाधस्ता'दित्यादि पूर्ववच्च । भूमेति । ययाधस्ताद् घट इत्यत्राधस्त- नघटभानम् । इदम्पदार्थमाहुः परीति । इदमस्तु प्रत्यक्षगे रूपमिति । स्वेति । भूमाभिन्नानां स्वेषां मानम्, 'कृष्णोऽहं पश्यत गति'मित्यत्र यथा भूमा भगवान् तत्त्वेन स्वेषां भक्तानां भानम् । हेतोरिति । सम्भारिभावरूपत्वादित्यर्थः । आत्मपदं मुख्ययात्मपरम् । अहङ्कारादेशस्य सम्भारिभावत्वज्ञापनाय पुनर्भूमा- भिन्नात्मज्ञानमित्यर्थः । एवमग्रे भाष्ये स्फुटम् । महिमेति । सस्फूर्तिसर्वात्मभावस्तस्मिन् प्रसिद्धे 1904