अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2031, कुल 2600 में से
संदर्भ में पढ़ें६७० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० ३ अ० १७ सू० ४४. सर्वत्र तदेव स्फुरतीति 'स एवाधस्ता'दित्यादिनोक्त्वा, कदाचित् स्वस्मिन्नेव भगवत्स्फूर्तिरपि भवतीति 'अथाहंकारादेश' इत्यादिना तामुक्त्वा, एतेषां व्यभिचारिभावत्वेनानियतत्वं ज्ञापयितुं पुनः सर्वत्र भगवत्स्फूर्तिमाह 'अथात भाष्यप्रकाशः । न यदुद्भवं प्रति सर्वात्मभावरूपं स्वस्मिन् विगाढभावात्मकं भगवतोक्तं तदेवोक्तमि- त्यर्थः । कथमित्याकाङ्क्षायामेतदग्रिमोक्तकार्यान्थानुपपत्त्यार्थादुक्तं भवतीति वक्तुमेतद्विम- जन्ते तत्रेत्यादि । रश्मिः । न तु संयोगसामयिकसर्वात्मभावपदनिर्वचनमिति संयोगीयन्निर्वचनमिति चेत् । न । संयोग- विप्रयोगभेदेनैकस्या एव भक्तेद्वैविध्यात् । न च संयोगे मानाभाव इति वाच्यम् । विहितभक्त्य- साध्यत्वेन भक्तिपदं सर्वात्मभावेऽर्धदलवाचकं स्यादिति । न चास्त्वेवमिति वाच्यम् । विशिष्टे शक्ति- वादिनां घट इत्युक्ते हि न घटत्वाविषयकप्रत्ययो भवतीति तथा वक्तुमशक्यत्वात् । तथा च प्रत्ययः । प्रतिमादिं पश्यतो भगवन्तं पश्यामीति चक्षुःसंयोगे । विप्रयोगे तु दैहिकपारतन्त्र्यं देशैक्येपि । तदा न पश्यामीति प्रत्ययः । तथा च प्रयोगः । विगाढभाववान् निरोधादाचार्यवदिति । एवं सर्वस्मिन् भाव इति सर्वात्मभाव इति लाडूमट्टकृतसर्वात्मभावविवेके । सा व्युत्पत्तिरतिविगाढभावेन वक्ष्यमाणस्फूत्तौ । तथा चैतादृशः सर्व आत्मनो भावो यत्र विगाढभावे स विगाढभावः सर्वात्मभावः । द्वितीयदले त्वतिविगाढभावः अतिपदार्थोऽनुभवसाक्षिको विरहे संयोगापेक्षयातिशयरूपः । तत्र सर्वस्मिन्नात्मभावो यत्रातिविगाढभावे स सर्वात्मभावः । तदुक्तं सर्वात्मभावरूपं स्वस्मिन् विगाढभावात्मक- मिति । अन्यस्मिन् कामुकेऽयं भावः सर्वात्मभावः स्यात्, तद्व्यावृत्त्यर्थं स्वस्मिन्निति । विगाढ- भावात्मकसर्वात्मभावाग्निरोधात्मकस्तस्मादतिविगाढात्मके स्फूत्र्यात्मकः सर्वात्मभावः । एवं संयोगे द्विविधोपि त्रिविधः आध्यात्मिकादिदैविकयोरभेदात् । अतिविगाढभावतदुद्भवस्फूर्तिरूपो द्विविधोपि विरहे त्रिविधः । उक्तभेदात् । एवं षड्विधो जीवे । ईश्वरेप्येवं षड्विधः कारणरूपः । तदुक्तं प्रदानव- त्सूत्रभाष्यप्रकाशे 'तेन भगवद्धर्मे'त्यादिना । व्युत्पत्तिस्तु सुबोधिन्या एव 'सर्वोप्यात्मनो भावः' इत्यस्याः श्रुतौ निरवध्यानन्दरूपत्वेन रसरूपत्वेन पुत्रादिभ्योपि प्रेयस्त्वेन च सिद्धस्य आत्मनो यो भावो धर्मः प्रियत्वाख्य आनन्दात्मा यन्मात्रां सर्व उपजीवन्ति स सर्वस्तदंशभूतो भगवद्धर्म ऐश्वर्या- दिवदतिरिक्तः । ननु स दत्तो जीवेष्वपि तादृश इति चेत् । न । 'एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुप- जीवन्ती'ति श्रुत्या प्रदानवत्सूत्रोक्तरीत्या भगवद्धर्मात्मकसर्वात्मभावदानेपि भगवद्धर्मसर्वात्मभावस्योक्त- विधत्वमपि । मात्रारूपत्वेन परिणामात् । एतेन प्रदानवत्सूत्रोक्तभाष्यप्रकाशोक्तलक्षणकसर्वात्मभावनिर्व- चनाभावात् तद्विरोध इत्यपास्तम् । तत्र भगवद्धर्मात्मकसर्वात्मभावनिर्वचनात् । आध्यात्निकाधिभौतिक- स्फूर्तिविगाढभावयोर्मात्रात्वायुक्तविधत्वम् । पुराणमतेन तु प्रदानवदेवेति सूत्रभाष्यप्रकाशेऽनुरागात्मेत्या- दिविशेषणविशिष्टः सर्वात्मभावो ज्ञेयः । तथा चैतेन श्रुतिवाक्येन सर्वः सर्वेन्द्रियसम्बन्धी आत्मनोऽ- न्तःकरणस्य भावः 'कामः सङ्कल्प' इत्यादिश्रुत्युक्तस्तस विद्यारूपस्स स्वरूपं 'दर्शनाच्चे'ति वक्ष्यमाण- सूत्रादुक्तमित्यर्थः । निरोधलक्षणोक्तविद्यारूपमिति यावत् । श्रीवल्लभजित्कृतसर्वात्मभावनिरूपणे सर्वात्मभावपदस्यायमर्थकः । भक्तिमार्त्तण्डे च । 'नन्दगोपव्रजस्त्रीणां नन्दगोपसर्वात्मभावत्वेन 'मनसो वृत्तयो नः स्यु'रिति भ्रमरगीतीयवाक्योक्तेन सर्वात्मभावनिरूपणस्य युक्तत्वात् । उक्तश्रुतेश्चेति 1906