अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2032, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ३७१ भाष्यप्रकाशः । अयमर्थः । अत्र व्याख्यातरीत्या यो भूममहिमाधाररूपः पुमान् परिचाययिष्यते, तस्य या स्फूर्तिः, सा नाखण्डब्रह्मज्ञानरूपा, 'तत् केन कं पश्ये'दित्यादिवत्तदाकाराभावात्, किन्तु सख- ण्डतद्रूपा, षण्णां दिशां परिदृश्यमानस्य सर्वस्य चानुवादपूर्वकं तत्स्फूर्तिकथनात् । सापि न वामदेवादिस्फूर्तिवन्मनुरभवमहं सूर्यश्चे'त्यादिसर्वत्राहङ्ग्रहरूपो, अहङ्कारादेशोत्तरं पुनरात्मादेश- कथनेन तस्याः व्यभिचारबोधनात् । अतः सा द्विविधाया अपि ज्ञानिस्फूर्तेर्विलक्षणेति तद्वानपि तेभ्यो विलक्षणः । 'स यदि पितृलोककामो भवती'त्यादिवदस्य कामानामनुक्तत्वादैहराद्युपा- सकेभ्योपि विलक्षणः । मर्त्यसुखानभीप्सुत्वाल्लोकेतोपि विलक्षणः । किन्तु सत्यवदनादि- कारणभूतकृत्यादिजनकसुखलामवत्त्वस्य भूमप्रतिष्ठाप्रश्नोत्तराभ्यां तन्महिमाधारत्वेनोक्तत्वात् पूर्व भूमलामवानुक्तः, तेन दृष्टश्रुतविज्ञातभगवत्कः परमभक्तस्तत्र ततोऽन्यदर्शनादिराहित्यस्योक्त- त्वाद्विरहभावे प्रपञ्चविस्मारकपरमासक्तिरूपो योऽतिविगाढभावस्तेन सर्वत्र तदेव आसक्तिविषयं रश्मिः । भाष्यार्थः । भाष्यीयैवकारव्यावर्त्यमाहुः अयमर्थ इति । 'सा सा सा सा जगति सकले कोऽयमद्वैत- वाद' इत्यत्रायं भावः कामुकस्योपवर्णितः । क्वचित् तत्रापि संभोगविगाढभावनिरोधविप्रयोगोति- विगाढभावस्फूर्तीनां सत्त्वात् लौकिकः सर्वात्मभावो रूपप्रपञ्चान्तर्गतो बन्धको रूपप्रपञ्चस्य बन्धकत्वात् 'सर्वग्रन्थीनां प्रविमोक्ष'इति श्रुतिविरोधाच्चेत्यत आहुः मर्येति । तथाच लौकिके सर्वात्मभावे मर्त्यसुखा- भीप्सुरधिकारी, अलौकिके तु शुद्धाहारी । 'प्राणपोषको ह्याहारः, तस्य सदोपत्वे तु न किञ्चित् सिध्यती'ति भाष्यात् । 'न पश्यो मृत्युं पश्यती'ति मृत्वस्पृष्टसुखत्वात् सर्वात्मभावसामर्थ्यसुखामीप्सुरधिकारी । एतेन वैष्णवस्य स्वस्त्रियामेतादृशभाववतो भावेपि न क्षतिः । आत्मविषयत्वाच्च । न चायोग्ये भावकल्पनमिति वाच्यम् । 'यद्यदिष्टतम'मिति वाक्यात् । 'लोकवत्तु लीलाकैवल्य'मिति सूत्राच्च । आत्म- विषयकः कैवल्यरूपः । कृत्यादिविषयकोऽकैवल्यरूपः । सत्येत्यादि । सत्यवदनविज्ञानमतिश्रद्धानिष्ठाः सुखादयः तासां कारणीभूता कृतिरादिः कृत्यादिसुखस्यादिः । तस्या जनकेत्यर्थः । ननु 'सत्यवदना- दिजनकेत्येतावत्तैव चारितार्थ्ये कारणभूतकृत्यादीत्यधिकमिति चेत्, न । एतदनुक्तौ सत्यवदनादिसक- लजनकेति भ्रमः स्यात्, तन्निवृत्तये कारणभूतायाः सुखस्यादिरूपायाः कृतेर्जनकत्वनिश्चयार्थं कारणभूत- कृत्यादीत्यस्यानाधिक्यात् । उक्तत्वादिति । 'यदा वै सुखं लभतेऽथ करोती'ति श्रुतेरित्यर्थः । दृष्टेति । भूमलक्षणश्रुतिव्याख्याने विशेषरूपेण लब्धः । परमेति । दृष्टश्रुतविज्ञातभ(ग)वत्कत्वमेव परमभक्तत्वम् । संयोगविगाढभावयोस्तु प्राकृतयोरनुवादात् । संयोगविगाढभावनिरोधानां वक्ष्यमाणत्रयप्रतिपादकग्रन्था- नुरोधेन वक्तव्यत्वात् । अत्र सत्यवदनादीनां संनिवेशप्रकारः । सर्वात्मभावे 'भक्तिः प्रवर्तिता दिष्ट्ये'ति वाक्यं अमरगीते, भक्तिवर्धिन्यां च 'सेवायां वा कथायां वे'ति वाक्यं विवि