अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2033, कुल 2600 में से
संदर्भ में पढ़ें३७२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ३ अ० १७ सू० ४४. भाष्यप्रकाशः। भगवत्स्वरूपमेव सर्वत्र स्फुरतीति 'स एवाधस्तादित्या'दिनोक्त्वा, एतेषां विरहभावकृततत्तत्स्फू- र्तिरूपाणां ज्ञानानां व्यभिचारिभावत्वेनानियतत्वं ज्ञापयितुं पुनरहङ्कारादेशात् पूर्वं निरूपित- रश्मिः। व्यवह्रियते ज्ञायते इति तद्रूपोऽतिविगाढभाव इत्यर्थः । 'मनसो वृत्तयो नः स्युः कृष्णपा- दाम्बुजाश्रया' इति भ्रमरगीतोक्तसर्वात्मभावे निरोधस्कन्धोक्ते निरोधस्य प्रपञ्चविस्मृतिपूर्वकभगवदा- सक्तिरूपस्य संनिवेशो भाष्यस्य आवश्यकः । तेनातिविगाढभावे वक्तव्येऽस्य विशेषणस्य किं प्रयोजनमिति कुचोद्यं निरस्तम् । व्यभिचारीति । विरहेत्यादितत्तत्स्फूर्तयोऽधःस्त्वत्वादिव्रकारकास्म- द्विशेष्यका बोध्याः । ते तु त्रयस्त्रिंशत् । 'चिन्ता स्मृतिर्हर्ष औत्सुक्यमपस्मारो विबोधो मतिरुन्मादो मरण'मित्येतेषु मतिरत्र सम्भवति । तस्या लक्षणं शास्त्रोपदेशमन्त्राद्यैरर्थनिर्धारणं मतिरिति । 'तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यत' इति गीतात्तः व्यभिचारित्वमस्या भक्तिरसात् पूर्वभावित्वेनोत्तरभावित्वेन च, भक्तिमार्गे उन्मादो वा । तस्य लक्षणम्, 'सन्निपातग्रहादित उन्मादश्चित्तविभ्रमः ।' तदुक्तं 'उत्तमानां विप्रलम्भो भवेत् प्रियवियोगतः । नीचानां विभवभ्रंशात् सर्वेषां सन्निपातत' इति । अत्रापि वाक्यं 'इत्युन्मत्तवचो गोप्यः कृष्णान्वेषणकातराः' इति । अत्र भक्तिपदवाच्यत्वात् षट्सु सर्वात्मभावपदव्युत्पत्तिः । संयोगः परस्परालिङ्गनपरिचुम्बनाद्यनन्तभेदत्वाद- परिच्छेद्य इत्येक एव । सर्व आत्मनो भावः परम्परया यत्र संयोगे स तथोक्तः । संयोगे परम्परया निरोधकारणत्वात् । वि विशेषेण गाढो दृढः बलपदवाच्यो भावः प्रेमा । 'दृढः स्थूलबलयो'रिति पाणिनिसूत्रात् । न च भावपदार्थो रतिर्वाच्य इति वाच्यम् । रतेर्भगवदाहकत्वात् । 'वशे कुर्वन्ति मां भक्त्ये'ति वाक्यात् । 'तं भजे'दिति श्रुतेश्च । न च प्रेमपदोपसन्दाने विहितकर्मज्ञानभक्तिसाध्यो न वेति शङ्कित्वा प्रदानसाध्यत्वं सर्वात्मभावस्योक्तम्, तद्भङ्गः, प्रेमपदेन विहितभक्तिलाभो न, अन्यसाधनसाध्यत्वादिति वाच्यम् । भाष्ये विहितपदाच्चित्तशुद्ध्यादीनां मर्यादामक्तिसाधकत्वे पुष्टौ प्रदानसाध्यत्वे बाधकाभावात् । न च प्रदानसाध्यत्वेऽनुग्रहासाध्यत्वापत्त्या भक्तिहेतुविरोध इति वाच्यम् । सर्वात्मभावोक्तिसन्दर्भकूपे द्वादशाध्याये पुष्टिमार्गकथनानन्तरं 'याहि सर्वात्मभावेने'ति वाक्यात् पुष्टिमक्तिस्त्वेपि सुबोधिन्याः सर्वः सर्वेन्द्रियसम्बन्धी आत्मनोऽन्तःकरणस्य भावः, 'कामः सङ्कल्प' इतिश्रुत्युक्तो वा, 'एकादशामी मनसो हि वृत्तय' इति पञ्चमस्कन्धोक्तो वा भवनं भगवति सत्ता वर्तनं तत्परत्वेनावस्थापनं वेत्यार्थकायाः सिद्धस्य वक्ष्यमाणस्य विद्यारूपस्य निरोधस्य दानेनाभ्युपगमात् । इतरस्याध्यात्मिकाधिभौतिकस्यानुग्रहसाध्यस्य पुष्टित्वादनुग्रहेणोपगमात् । श्रौतस्य प्रदानसाध्यता, पौराणस्य तु अनुग्रहसहकृतप्रदानसाध्यता सर्वात्मभावस्य निरोधात्मकस्य । वक्ष्यमाणनिरोधात्मकस्य । विगाढभावे सर्व आत्मनोऽन्तःकरणस्य भाव उक्तो यत्रेतिव्युत्पत्तिः । 'नास्तो विद्यते भावो नाभावो विद्यते सत' इति गीतायाः । निरोधे व्युत्पत्तिः । सर्वः सर्वेन्द्रियसम्बन्धी भावः 'कामः सङ्कल्प' इति श्रुत्युक्तः । भाष्ये भूमपदवाच्यो यः । 'एतेन सर्वात्मभावरूपमेवोक्तं भवती'ति भाष्यात् । भाष्यमते इयं मुख्या व्युत्पत्तिः सर्वात्मभावस्य । मूललक्षणश्रुतिसिद्धत्वात् । पञ्च तु सर्वात्मभावव्युत्पत्तिश्रुत्याः सर्वात्मभावान्तःपातित्वात् सर्वात्मभावा इत्युच्यन्त इति भक्तिहंसदिशा ज्ञायते । अथापि व्युत्पत्तिर्विरहे । विशिष्टो रहो विरहः । अन्तःसंवेदनम् । विरहो, 'विरहे ये विविधा भक्तिभावा उत्पद्यन्ते, ते न सङ्गमेपी'ति वैशिष्ट्यम् । स च चक्षूरागः । प्रथममित्यवस्थाप्रकारेण धिकलत्वात्सास्यरूपः । नन्वन्तःसंवेदनेपि चक्षूराग इति चेत् । न । 'कश्चिद्धीरः प्रत्यगात्मानमैक्षदा- 1908