भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2034, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2034

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ३७३ भाष्यप्रकाशः। स्वावृत्त्या सर्वत्र भगवत्स्फूर्तिमाह 'अथात आत्मादेश' इत्यादिना । विधात्रयसमाप्तौ च 'स वा एष एवं पश्य'न्नित्यादि कथयति । तत्र 'स' इत्यनेन पूर्वोक्तं परामृश्य, 'एष' इत्यनेन महिमानं निगमयति । तत्रायमर्थः । पूर्वं विधात्रयस्योक्तत्वात्तासां प्रत्येकंमहिमरूपत्वे, 'स वा एष' इत्यत्र बहुवचनापत्तिः । समुदितस्य तथात्वे पूर्वविधापरामृ- ष्टस्य भूम्नोपि महिमत्वापत्तिः, अतस्तदुभयमत्र नाभिप्रेतम्, किन्त्वेवं पश्य'न्नित्यादिनोक्तासु दर्शनादिक्रियासु पूर्वोक्तविधात्रयं कर्मत्वेनैवाभिप्रेत्यैवं पदेन परामृशति, दर्शनादिमतश्चाग्रे फलं रश्मिः। वृत्तचक्षुरमृतत्वमिच्छ'न्नितिश्रुत्यान्तःसंवेदने चक्षूरागोक्तेः । आत्मदर्शनं 'सा परानुरक्तिरीश्वरे' इति शाण्डिल्यसूत्रेण रागमन्तरासम्भवच्चक्षूरागरूपां भक्तिमाह । द्विपत्ति चक्षुःस्वकारणनिर्वाहाय । न चास्तु चक्षूरागः संयोगवद्विरहेपि, रागस्य भक्तिलक्षणत्वात्, परन्तु सम्यक् ज्ञानं तस्य श्रुतौ न सम्भवति, प्रत्याशादिमस्तिरस्कारादिति बोध्यम् । 'भवतीनां वियोगो मे न हि सर्वात्मना क्वचि'दित्यस्मात् । 'दुस्त्यजस्तत्कथार्थ' इत्यस्माच्च रागप्राप्तेः । लक्षणोक्तस्य भानावश्यकत्वाच्च । अन्यथा लक्षणत्वापलाप- प्रसङ्गः । ननु 'कामाद्गोप्यः', 'अलमन्यविचारेण, प्रेम्णेच्छेति स्थितं मत'मिति वाक्याभ्यां इच्छा ममेति चेत् । न । 'अनाविष्कुर्वन्नन्वया'दितिसूत्रे भक्तिरसस्य गुप्तसैवविवृद्धिखभावत्वेन कामादीनां गौण- प्रेमत्वात् । अतः 'का मस्तस्य दिदृक्षैवे'ति 'नैव इच्छा तु साधारण्या'दिति कारिकाशाण्डिल्यसूत्रयो- रिच्छायां विशेषस्य दूषणस्य चोक्तेः । अतः बहुविधोपि विरहोत्रैक एव गण्यते, संयोगवदिति सिद्धम् । ननु विप्रलम्भ इति वक्तव्ये तदेकदेशोपादानं भाष्ये कुत इति चेत् । न । विप्रयोगस्याभिलाषविरहे- र्ष्याप्रवासशापहेतुकत्वेन पञ्चविधस्य सङ्गमप्रत्याशाकालीनस्तदनुत्पादो विप्रलम्भ इति लक्षणलक्षितस्या- यावयवोऽभिलाष इच्छारूपः द्वितीयो विरहः । देशैक्येपि गुर्वादिपारतन्त्र्यम् । अन्यासङ्गिनि प्रिये कोप ईर्ष्या । प्रवासा वैदेश्यम् । उत्पादिकोपनीयश्रणं शापः वाग्दण्डः । विप्रलम्भलक्षणे प्रत्याशा प्रतिनिश्चयः । तत्रोद्भवस्य 'अत्रागतोऽहं विरहातुरात्मे'ति वाक्याद्विरहेऽन्तर्भावि सर्वं भवतीति विरहस्य भागवतमते मुख्यत्वात् । अन्यथा प्रवासहेतुके विप्रलम्भे विरहहेतुकत्वं विरुद्धमुक्तं स्यात् । सर्वस्मिन्नात्मभावः परम्परया यत्र विरहे स सर्वात्मभावः । संयोगवद्विप्रयोगेपि सर्वात्मभावं वक्तुं तत्रेत्यारभ्य इत्यादिने- त्यन्तं भाष्यं ततः संयोगभाव इत्यादिभाष्येण सुखान्वितमपि ह्यग्रेतनश्रुत्या तदेव भाष्यं संयोज्य 'सर्वात्मभावस्वरूपमेवोक्तं भवती'ति भाष्यमावृत्त्या पुनर्योजयन्तिस्म विधेति । विधात्रयमात्मादेशाहङ्कारा- देशात्मादेशरूपम् । अहङ्कारस्य पुरुषविधाब्राह्मण आत्मतः प्रथममुत्पत्तिदर्शनात् । जीववाचकस्याहङ्कारस्य प्रयोगः, न तु सन्निपातलक्षणैकदेशस्यास्मत्पदवाच्यस्य हेयस्य । लक्षणं तु 'सन्निपातस्त्वहमिति ममे- त्युद्भव या मति'रिति । न चोन्मादोत्पादकः सन्निपातोऽस्त्विति शङ्क्यम् । भेदांशे तस्याविरोधात् । भक्तानामन्तराभूतस्यामेदसादनादयं ब्रह्माभिप्रेतोऽह्येव एव । तदुक्तं सुबोधिन्यां 'कृत्वाऽतरन् वत्स- पदं स्म यत्प्लवा' इत्यस्य । भेदः संसारः । सुबोधिन्यां भूम्नोपीति । न च निरोधलक्षणोक्तनिरोधस्य भूमपदवाच्यत्वेन स्फूर्तिविषयस्य कथं भूमपदवाच्यत्वमितिशङ्क्यम् । भक्तिहंसोक्तदिशा सर्वात्मभावान्तः- पातिनोपि स्फूर्तिविषयस्य भूमत्वात् । पूर्वोक्तेति । एवं पदेन पूर्वोक्तेत्यादिरित्यन्वयः । पूर्वपरामर्शार्थक एवकारः । फलमिति । 'आत्मरतिरात्मक्रीड आत्ममिथुन आत्मानन्दः, स खराड् भवती'ति श्रुत्या 1909