अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2035, कुल 2600 में से
संदर्भ में पढ़ें३७४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० ३ अ० १७ सू० ४४. आत्मादेश' इत्यादिना । ततः संयोगाभावे सति पूर्वभावेन सर्वोपमर्दिना स्वप्रा- णादिसर्वतिरोधानेनाग्रिमलीलानुपयोगित्वं न शङ्कनीयम्, यतो भगवत एव सर्व- सम्पत्तिरित्याशयेन 'तस्य ह वा एतस्यैवं पश्यत' इत्युपक्रम्य 'आत्मत एवेद५ सर्व'मित्युक्तवान् । ततः श्लोकैस्तद्भावस्वरूपमुक्तवैतस्य मूलकारणमाह 'आहारशु- भाष्यप्रकाशः । वदति, तेन 'कर्म फलार्थत्वा'दिति न्यायात्तादृशफलजनकं यद्विधात्रयकर्मकं ज्ञानं तदत्र महि- मत्वेन फलति । तथाचात्राग्रे आत्मरत्यादिपदै रतिक्रीडामिथुनानन्दानां रसरूपं भगवन्तं भजत एव धर्माणामुक्तत्वाद् दृष्टश्रुतविज्ञातभगवत्को रसस्य संयोगविप्रयोगाभ्यां द्विधानुभवविषय- त्वाद्विरहभावेऽतिविगाढभावेनोक्तरीत्या सर्वत्र तत्स्फूर्तिमान् भक्तो भूममहिमाधारत्वेन सिद्ध इति तस्य या स्फूर्तिः सोक्तरीतिकसर्वात्मभावव्यभिचारिभावरूपैव, नान्यविधेति तेन भगवति विगाढभावरूपं तत्स्वरूपमेवात्रोक्तं भवतीत्यर्थः । एतदेव फलतोपि निगमयितुं, 'तस्य ह वा एतस्ये'त्यादेर्ग्रन्थस्य तात्पर्यमाहुः तत इत्यादि । तथाच विरहभावानन्तरं संयोगाभावे असति पूर्वभावेन विरहात्मकेन तथेति श्रुत्यैवेदं सर्वमिति शङ्कानिरासाय 'तस्य वा एतस्ये'त्यादिना भगवत एव सकाशात् सर्वस्थितिरुक्तवान्, अतो विरहेण सर्वोपमर्दाभावाल्लीलोपयोगसिद्धिरिति, सापि तादृशभक्तद्भावयोर्गमिकेत्यर्थः । एत- देव सङ्ग्रहग्रन्थतात्पर्यकथनेन दृढीकुर्वन्ति ततः श्लोकैरित्यादि । श्लोकास्तु 'न पश्यो मृत्युं पश्यति न रोगं नोत दुःखताम् । सर्व५ हि पश्यः पश्यति सर्वमाप्नोति सर्वश इति । स एकधा भवति त्रिधा भवति पञ्चधा । सप्तधा नवधा चैव पुनश्चैकादशः स्मृतः । शतं च दश चैकश्च सहस्राणि च वि५शतिः । आहारशुद्धौ सत्त्वशुद्धिः सत्त्वशुद्धौ ध्रुवा स्मृतिः । स्मृतिप्रतिलम्भे रश्मिः । फलमित्यर्थः । न्यायादिति । अयं न्यायः पूर्वमीमांसायां तृतीयाध्याये वर्तते 'कर्माण्यपि जैमिनिः फलार्थत्वा'दिति सूत्रसिद्धः । कर्माण्यपि शेषाणि फलार्थत्वात् परार्थस्य शेषलक्षणत्वादिति जैमिनिः सिद्धान्तवक्ता आहेति सूत्रार्थः । विधात्रयेति । 'एवं पश्यं'नित्यस्य विधात्रयं पश्यन्नित्याद्यर्थात् विधात्रयेत्यादिः । ज्ञानं क्रिया कर्मेति यावत् । ननु कथं ज्ञानं कर्मेति चेत् । न । 'भूवादयो धातव' इत्यस्य सूत्रस्य 'क्रियावाचिनो भ्वादय' इत्यर्थात् । अग्रेति । विरहे । उक्तेति । भाष्योक्तरीतिक- निरोधात्मकसर्वात्मभावेत्यर्थः । तेनेत्यादि । विगाढभावस्यातिविगाढभावस्य रूपं व्यवहारो ज्ञानं येन सर्वात्मभावेनेति बहुव्रीहिः । विरहभावेपीत्याद्युक्तग्रन्थात् । विरहभावेऽतिविगाढभावेनेति पाठः । तत्र विरहभावेऽतिविगाढभावेनेति भाष्यात् । तत्स्वरूपं सर्वात्मभावस्वरूपम् । एवकारेण 'सर्वात्मभावं विदध'दिति नवमस्कन्धवाक्ये 'सर्वस्मिन्नात्मभावो यत्र क्रियाकलाप' इति श्रीधरीग्रन्थेन सर्वस्मिन्नात्मभाव इति समासावेदकश्रीभागवतेन चास्यार्थसेतरार्थापेक्षया प्रामाणिकत्वादितरेऽर्था व्यावर्तन्ते । यथैतेनेत्यादिभाष्ये एवकारेण 'मनसो वृत्तयो नः स्युः कृष्णपादाम्बुजाश्रया' इत्यादिना भ्रमरगीतोक्तश्रीनन्दसर्वात्मभावस्य 'वन्दे नन्दव्रजस्त्रीणा'मित्यत्र नन्दव्रजस्त्रीत्वेन तासामपि वक्तुं शक्यत्वेन 'आत्मनि सर्वेन्द्रियाणि सम्प्रतिष्ठाप्ये'ति श्रुत्या च सर्वः सर्वेन्द्रियसम्बन्धी आत्मनोऽन्तःकरणस्य भाव इति षष्ठीतत्पुरुषगर्भितकर्मधारयार्थसेतरार्थापेक्षया प्रामाणिकत्वादितरेऽर्था व्यावर्तन्ते, तद्वत् । अर्थ इति । तत्रायमर्थ इत्यत्रतार्थमुद्दिश्यैतादृशार्थत्वं विधीयत इति तत्रायमर्थ इति न वाक्यान्तर- मिति न वाक्यभेदः । गमिकेति । तादृशभक्तभाववान् आत्मतः पुष्टिमार्गीयप्राणादिसर्वसम्पत्तेः । 1910