भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2039, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2039

३७८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ३ अ० १७ सू० ४६. मित्यन्तेनोक्तमिति पूर्वोक्तप्रकारादन्येन प्रकारेणात्माभेद एव सर्वस्योक्तः । तदे- वाह । पूर्वस्य पूर्वप्रपाठकोक्तात्माभेदज्ञानस्य विकल्पः प्रकारभेद एवाग्रेपि निरू- प्यते । तत्रोपपत्तिमाह प्रकरणादिति । एतदुपपादितम्। अत्र सिद्धान्तसम्मतमेव दृष्टान्तमाह तद्द्वयसंवादार्थं क्रियामानसवदिति । यथा पूजनप्रकरणे बाह्यं तत्क्रियारूपमुच्यते, आन्तरं तु मनोव्यापाररूपमुच्यते । न चैतावतान्यतरस्य तल्लिङ्गत्वं वक्तुं शक्यम् । प्रकरणभेदात् । तथेहापीत्यर्थः ॥ ४५ ॥ अतिदेशाच्च ॥ ४६ ॥ नामरूपात्मकं हि जगत्, तत् पूर्वं सर्वशब्देनानूद्य तस्मिन् ब्रह्माभेदो निरूपितः, अग्रे तु ऋगादिविद्या अनूद्य नामात्मकब्रह्मत्वं तत्रातिदिश्यते । भाष्यप्रकाशः।