अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2040, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ३७९ 'नामैवैतन्नामोपास्वे'ति । इतोपि हेतोर्ज्ञानप्रकारभेद एवाग्रे निरूप्यत इत्यर्थः ॥४६॥ विद्यैव तु निर्धारणात् ॥ ४७ ॥ तुशब्दः पूर्वपक्षं व्यावर्तयति । यदुक्तं सनत्कुमारनारदसंवाद आत्मज्ञान- प्रकारविशेष एव निरूप्यत इति, तन्न, किन्तु विद्यैव निरूप्यत इति । अत्रेदमाकूतम् । 'नायमात्मे'ति श्रुतिरितरसाधननिषेधपूर्वकं वरणस्य भाष्यप्रकाशः। अनूद्य नामात्मकब्रह्मत्वं तत्रातिदिश्यते । तथैव मनःप्रभृतिरूपात्मकं जगत्तत्तच्छब्देनानूद्य तत्त- दात्मकब्रह्मत्वं तत्रादिश्यते । अतो यथा कौण्डपायिनां सत्रे 'मासमग्निहोत्रं जुहोती'त्यग्निहो- त्रनाम्ना प्राकृताग्निहोत्रधर्मास्तत्रादिश्यन्ते, तथात्र 'नामोपास्वेति स यो नाम ब्रह्मेत्युपास्त' इत्या- दिवाक्यैर्नामादीञ्जगद्रूपाननूद्य नामादिशब्दैस्तत्तदात्मकब्रह्मत्वं तेष्वतिदिश्यत इत्यतिदेशादपि हेतोर्ज्ञानप्रकारविशेष एवाग्रेऽस्मिन् प्रपाठके निरूप्यत इत्यर्थः ॥ ४६ ॥ विद्यैव तु निर्धारणात् ॥ ४७ ॥ उक्तं पूर्वपक्षं सूत्रव्याख्यानेन निरस्यन्ति तुशब्द इत्यादि । ननु विद्याशब्दो ज्ञानसामान्ये प्रसिद्धः, सर्वात्मभावस्वरूपे ज्ञानविशेषे कथं नियम्यत इत्या- काङ्क्षायां तदुपपादनाय वरणादिश्रुत्येकवाक्यतया प्रकृतश्रुतितात्पर्यं वक्तुं पूर्वं वरणश्रुतिं व्याकु- र्वन्ति अत्रेत्यादि । अस्यां उक्तायां श्रुतौ वरणश्रुत्यविरुद्धं तात्पर्यं तस्माद्वरणश्रुत्यर्थ उच्यत इत्यर्थः । वरणश्रुतिस्तु 'नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते रश्मिः । वेदितव्ये' इत्युपक्रम्य, 'तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेद' इति श्रुतेर्विद्यापदप्रयो- गोऽस्ति । अतिदिश्यत इति । 'नामैवैतन्नामोपास्वे'ति श्रुत्यातिदिश्यत इत्यर्थः । नन्वत्र नामत्व- मतिदिश्यते, न नामात्मकब्रह्मत्वमिति चेत् । न । 'स यो नाम ब्रह्मेत्युपास्त' इति पूर्वार्थानुवादकश्रुत्या नामोपासनस्य नामात्मकब्रह्मोपासनत्वात् । अतिदेशस्तु अन्यत्र । 'सत्यं ज्ञानमनन्तं ब्रह्मे'ति प्रतिपाद्ये ब्रह्मणि प्रतीतस्य ब्रह्मत्वस्यान्यत्र नाम्नि कार्यत उपासनायाः प्राप्तिः । तदुक्तं पूर्वाचार्यैः । 'अन्यत्रैव प्रतीतायाः कृत्स्नाया धर्मसन्ततेः । अन्यत्र कार्यतः प्राप्तिरतिदेशोऽभिधीयत' इति । प्राकृताङ्गस्योपासना- ख्यात् तत्समानेषु नामोपासनकर्मसु धर्मप्रवेश आज्ञाविषयप्रवेशो 'नामैवैतन्नामोपास्वे'त्यनेन स्यात् स वेदो वातिदेशः । 'प्राकृतात् कर्मणो यस्मात् तत्समानेषु कर्मसु । धर्मप्रवेशो येन स्यात् सोऽतिदेश इति स्मृत' इति तैरेव । तत्तच्छब्देनेति । मनःप्रभृतिशब्देन तच्छब्दस्य द्विरुक्तावप्यर्थस्यैक्यात् । स च स चेति विग्रहे एकशेषपत्तिः । तत्तदिति । मनःप्रभृत्यात्मकब्रह्मत्वम् । अत इति । अतिदेशात् । मासमिति । अत्यन्तसंयोगे द्वितीया । अग्निहोत्रेति । द्वितीयलक्षणादरेणातिदेशरूपेण । तत्रेति । मासाग्निहोत्रे । अतिदिश्यन्त इति । प्रथमलक्षणेन पूर्वतन्त्रे सप्तमस्य तृतीये पादे उक्ताधिकरणेऽति- देशा धर्मनिष्ठाः क्रियन्ते । सूत्रं तु उक्तम्, 'क्रियाभिधानं तच्छ्रुतावन्यत्र विधिप्रदेशः स्या'दिति । चतुःसूत्रमिदमधिकरणं भाष्ये प्रसिद्धम् । भाष्ये 'सायमग्निहोत्रं जुहोती'ति पपाठ भाष्यकृत् । ज्ञाने- त्यादि । ब्रह्मत्वप्रकारकनाममनःसङ्कल्पादिविशेष्यकज्ञानप्रकारविशेष इत्यर्थः ॥ ४६ ॥ विद्यैव तु निर्धारणात् ॥ ४७ ॥ इदमपदार्थमाहुः वरणेति । आकूतपदार्थमाहुः तात्पर्यमिति । भिन्नवाक्यत्वार्थं शेषं पूरयन्ति स्म तस्मादिति । उक्त्वेति । श्रुतिरुक्त्वा वृत- 1915