अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2042, कुल 2600 में से
संदर्भ में पढ़ेंयस्त्वेनात्मत्वेन च वृणुते, तद्विशिष्ट एव भोगान् भुङ्क्ते । अत एव तैत्तिरीयोप- निषत्स्वपि 'ब्रह्मविदाप्नोति पर'मिति सामान्यतो ब्रह्मविदः परब्रह्मप्राप्तिमुक्त्वा, अग्रिमर्चा विशेषतोऽवदन् । 'सत्यं ज्ञानमनन्तं ब्रह्मे'ति परब्रह्मस्वरूपमुक्त्वा, 'यो वेद निहितं गुहायां परमे व्योमन् सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चि- ते'त्युक्तम् । एतद्यथा तथाऽऽनन्दमयाधिकरणे प्रपञ्चितमस्माभिः । भाष्यप्रकाशः। यत्तु केचिदस्मिन् मन्त्रे 'यमेव परमात्मानमेष विद्वान् वृणुते प्राप्तुमिच्छति, तेन वरणेन एष परमात्मा लभ्यः, नान्येन साधनान्तरेण । नित्योपलब्धस्वभावत्वात् । कीदृशोऽसावात्मलाभ इति, उच्यते । तस्य एष आत्माऽविद्यासंछन्नः स्वां परां तनुमात्मतत्त्वस्वरूपं प्रकाशयति । प्रकाशे घटादिरिव विद्यायां सत्यामाविर्भवतीति मुण्डके व्याचक्रुः । यदपि काठके यमेव स्वमा- त्मानमेष साधको वृणुते प्रार्थयते तेनैवात्मना वरित्रा स्वयमात्मा लभ्यः ज्ञायते इत्येतत् । निष्कामश्चात्मानमेव प्रार्थयते । आत्मनैवात्मलाभ इत्यर्थः । कथं लभ्यत इति । उच्यते । तस्या- त्मकामस्यैष आत्मा विवृणुते प्रकाशयति पारमार्थिकीं तनुं स्वां स्वकीयाम् । स्वं याथात्म्यमि- त्यर्थ इति । तत्रापि तनुपदवैयर्थ्यस्य दुर्वारत्वात् वरणीयवरित्रोरभेदाङ्गीकाराच्च व्याख्येयवि- रोधः स्फुट एव । किञ्च । गीतायां 'एवं सततयुक्ता ये' इत्यर्जुनप्रश्ने, भगवता 'मय्यावेश्य मनो ये मा'मित्युत्तरेण, 'चतुर्विधा भजन्ते मा'मिति भजनमुपक्रम्यैव, 'ज्ञानी त्वात्मैव मे मत'- मिति ज्ञानिभक्तस्यैवात्मकत्वकथनेन, 'तपस्विभ्योऽधिको योगी'ति सन्दर्भे शुष्कज्ञान्यपेक्षया योगिन उत्कर्षमुक्त्वा, 'श्रद्धावान् भजते यो मां स मे युक्ततमो मत' इति भक्तोत्कर्षकथने चास्म- दुक्तार्थस्यैवोपोद्बलनाच्च तदसङ्गतम् । अतो विवरणपदस्य प्रकाशनार्थकत्वपक्षेपि तनुप्रकाशलि- ङ्गेन भक्तस्यैव वरणविषयत्वं निश्चीयत इति तेष्वेव स्वीयत्वं सिद्ध्यतीति पूर्वोक्तप्रकारे न कश्चि- द्दोष इति हृदिकृत्योक्तार्थदार्ढ्याय श्रुत्यन्तरमाहुः अत एवेत्यादि । तथाच यदि लाभपदार्थः प्रकाशनरूपः श्रुत्यभिप्रेतः स्यात्, तदास्यामृचि प्राप्तिपदार्थः कामभोगरूपो नोच्येत । अतो न पूर्वोक्तेऽर्थे विप्रतिपत्तव्यमित्यर्थः । एतच्छ्रुतावपि विप्रतिपत्तिश्चेत्, तदा पूर्वग्रन्थमवलोक्य सा निरसनीयैत्याशयेन आहुः एतदित्यादि । आनन्दमयाधिकरणे अक्षरादुत्तमस्य रसरूपस्यैव रश्मिः। तर्केण मतिरापनेये'ति विरोधकम् । 'आत्मा वा अरे द्रष्टव्यः श्रोतव्य' इत्यादिश्रुतौ वाराहवाक्याद्भक्ति- प्रवेशवत् वरणश्रुतावपि भक्तिप्रवेशस्य न्याय्यत्वेन तर्काभावादृते । 'वृङ् सम्भक्तौ' क्र्यादिः संविभजनार्थ इति स नोपात्तः । ननु परेषामयमर्थः, न तु वैयाकरणानाम्, सम्यक् सेवारूपसर्वात्मभावः सम्भक्ति- पदार्थोऽस्तु, श्रुतौ विकरणव्यत्ययोऽस्त्विति चेत् । न । भक्तिमार्गे यद्वरणं स्वीयत्वेनाङ्गीकाररूपमिति भाष्ये विकरणव्यत्ययानङ्गीकारात् । न चेदमप्रयोजकमिति वाच्यम् । 'आचार्यवान् पुरुषो वेदे'ति श्रुतेः । इच्छतीति । ज्ञानवान् इच्छात इति ज्ञानमनुमेयम् । य इच्छति, स यतिष्यत एव । इतीति । इमं प्रश्नरूपं हेतुं विचार्य श्रुत्योच्यते इत्यर्थः । प्रकाश इति । सति सप्तमी । घटादि- रिति । पूर्वं विद्यमान एवात्मतत्त्वं प्रकाशयति, तद्वत् । घटादेरुपादानविषमसत्ताकान्यथाभावरूप- विवर्तत्वात् । अभेदेति । ननु भवतामप्यभेदाङ्गीकारोऽस्त्येवेति चेत् । न । भावाद्वैतेन पटस्तन्तव इत्यभेदप्रत्ययेपि तन्तवः पट इत्यप्रत्ययात् तादृशभेदमादायोपपत्तेः । नन्वभेदमादाय पाक्षिको दोष इति चेत् । न । उपष्टम्भकत्वादित्याहुः किञ्चेति । रसरूपस्येति । एतेनानन्दमयाधिकरणोक्तः प्राप्तिपदार्थः, न