अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2043, कुल 2600 में से
संदर्भ में पढ़ें१८२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० ३ अ० १७ सू० ४७. भाष्यप्रकाशः । परशब्दार्थत्वेन निर्णीतत्वात् परमव्योमत्वेन चाक्षरस्य तद्धास्रो निर्णीतत्वाद्गरणैनैव तत्राप्तेरपि विचारितत्वाच्चेत्यर्थः । ननु वरणश्रुतिः काठके 'अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्, अन्यत्र भूताच्च भव्याच्च यत्तत् पश्यसि तद्वदे'ति प्रश्ने, 'सर्वे वेदा यत्पदमामनन्ती'त्यादिना, 'एतद्ध्येवाक्षरं ब्रह्म'ति प्रकृत्य पठिता । मुण्डकेपि 'अथ परा यया तदक्षरमधिगम्यते यत्तदहेश्यमग्राह्य'मित्यक्षरमेवोपक्रम्य पठिता । एवं सति पुरुषोत्तमप्रसङ्गस्य कुत्राप्यदर्शनात् कथमत्रैवं भगवत्परत्वेन व्याख्या- यत इति चेत् । अनवधाय वदसि । काठके सर्ववेदवेद्यत्वं परस्यैवोच्यते । तच्च वाच्यवाचकाभेदविवक्षया प्रणवे वक्तुमक्षरपदेन प्रणवं परामृश्य, तत्र ब्रह्मत्वमुपासनासाधनत्वाय विधीयते मन्त्रद्वयेन । ततो 'न जायते न म्रियते वे'ति मन्त्रद्वयेनोपासकस्वरूपमुक्त्वा, 'अणोरणीयान् महतो महीया'नित्यादि- मन्त्रत्रयेण तस्य परस्यात्मनो विरुद्धधर्माश्रयत्वादिकमुक्त्वा, तस्य ज्ञानं कथमित्याकाङ्क्षायां 'नाय- मात्मे'ति पठ्यते । अतो नात्र तद्गन्धः । मुण्डकेपि प्रथमे मुण्डके 'यत्तदहेश्यमग्राह्य'मित्यादिना सर्वकारणत्वेनाक्षरं प्रस्तुतम्, द्वितीयेपि 'यथा सुदीप्तात् पावकाद्विस्फुलिङ्गा' इति मन्त्रेण तस्मात् सजा- तीयविजातीयसृष्टिमूक्त्वा, 'दिव्यो ह्यमूर्तः पुरुषः स बाह्याभ्यन्तरो ह्यजः । अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः पर' इति मन्त्रे पूर्वोक्तादक्षरात् परतः परोऽतिरिक्त उक्तः । तृतीयेपि 'द्वा सुप- र्णे'त्यनेनान्तर्यामितया तमेव परामृश्य ततो 'जुष्टं यदा पश्यत्यन्यमीश'मित्यादिना तद्दर्शनफ- लमुक्त्वा, ततो 'ज्ञानप्रसादेने'त्यनेन निष्कलध्यानात्तद्दर्शनमुक्त्वा, ततो ज्ञानप्रसादेपि न स्वसा- रश्मिः । तु व्यापकरूप इति ध्वन्यते । न च कामिनामालिङ्गने कामिन्यादिव्याप्तीच्छासत्त्वा'दक्षुत' इत्यत्र रसरूपत्वेपि व्याप्यर्थोऽस्त्विति वाच्यम् । 'लोकवत्तु लीलाकैवल्य'मिति सूत्रात् तावत्याः शरीरप्रति- बद्धाया व्याप्तेः स्वीकारात् । अनवेति । 'एतद्ध्येवाक्षरं ब्रह्म, एतद्ध्येवाक्षरं पर'मिति श्रुतौ ब्रह्म- परयोः शब्दवैलक्ष्याहितवैलक्षण्यमनवधाय । परस्यैवेति । अनिदमित्यतयेति शेषम् । ईक्षत्यधिकरण उपपादनादेवकारोऽवधारणे । न'न्वेतद्ध्येवाक्षरं ब्रह्मे'त्यनेन सर्ववेदवेद्यत्वमक्षरेपि श्रुत्योच्यते, तत्राहुः तच्चेत्यादि । प्रणव इति । 'नवीनभावजनक' इत्यादिगायत्र्यर्थकारिकातस्तादृशोऽर्थो ध्वन्यते । अकार उकारो मकारोऽर्धमात्रा चेत्येतच्चतुष्टयात्मके ब्रह्मरुद्रविष्णुकृष्णरूपे वाचक इत्यर्थः । विधीयते, नत्वारोप्यते । तथा च परस्येक्षत्यधिकरणे कृष्णस्य 'यतो वाचो निवर्तन्ते' इति श्रुतिप्राप्ता- शब्दत्वं निषिध्यते तद्द्वारानिदमित्यतया सर्ववेदवेद्यत्वं इतरत्र तु वर्तत एवेदमितयतया सर्ववेदवेद्यत्वम् । श्रुतिश्च 'ॐमित्येतत् । एतद्ध्येवाक्षरं ब्रह्म, एतद्ध्येवाक्षरं पर'मिति । परं कृष्णरूपम् । परपदार्थस्यानन्द- मयाधिकरणे निरूपणात् । एतच्चादृश्यत्वाधिकरणे समन्वयाध्यायद्वितीयपादे निपुणतरमुपपादितम् । मन्त्रेति । 'एतद्ध्येवाक्षरं ब्रह्म, एतद्ध्येवाक्षरं परम् । एतद्ध्येवाक्षरं ज्ञात्वा यो यदिच्छसि तस्य तत् । एतदालम्बनं श्रेष्ठमेतदालम्बनं परम् । एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते' इति मन्त्रद्वयेन । तस्य प्रणवार्थमात्राप्रतिपाद्यस्य । ज्ञानमिति । फलात्मकम्, न तु साधनात्मकम् । सर्वेति । तया च सर्व- कारणे निरङ्कुशजगज्जन्मादिकर्तृत्वेन शास्त्रप्रतिपाद्यत्वरूपलक्षणसङ्गया परमे ब्रह्माक्षरात्मकं प्रस्तुतमित्यर्थः । अतिरिक्त इति । गोकुले नित्यलीलाकर्ता । 'तानि परे तथा ह्याहे'ति व्याससूत्रात् । इतीति । शङ्कर- भाष्ये प्रतिपाद्यान्तराभावादिति भावः । छान्दोग्ये सामशाखायां काठकं यजुःशाखायां मुण्डकं शाखान्तरम् । 1918