अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2052, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ३९१ दर्शनाच्च ॥ ४८ ॥ दृश्यते च सर्वात्मभाववतां भक्तानां व्रजसीमन्तिनीप्रभृतीनां पूर्वमितर- विस्मृतिर्भगवत्स्पर्शादिनाग्रे सर्वसामर्थ्यमिति व्यासः स्वानुभवं प्रमाणत्वेनाह । उक्तं च श्रीभागवते ताभिरेव 'चित्तं सुखेन भवतापहृतं गृहेषु यन्निर्विशात्युत करावपि गृह्यकृत्ये, पादौ पदं न चलतस्तव पादमूला'दित्यादिना । तेन ज्ञानश- क्तिक्रियाशक्तितिरोधानमुक्तं भवति । अग्रे तदाविर्भावादिकं स्फुटमेव ॥ ४८ ॥ ननु सनत्कुमारनारदसंवादात्मकमान्तमेकं वाक्यम्, तत्रोपक्रमे 'मन्त्रविदेवा- स्मि नात्मविच्छ्रुतं१ ह्येवं मे भगवद्दृशेभ्यस्तरति शोकमात्मविदिति, सोऽहं भगवः शोचामी'त्यादिना स्वात्मज्ञानस्यैवोपक्रमादुपसंहारोपि तमादायैवोचितः । अग्रे चेत् आत्मपदानामीश्वरपरत्वं स्यात्, वाक्यभेद उपक्रमविरोधश्च स्यात्, तस्मा- द्वाक्यानुरोधात् पूर्वज्ञानप्रकारविशेष एवायमिति मन्तव्यमित्यत उत्तरं पठति । श्रुत्यादिबलीयस्त्वाच्च न बाधः ॥ ४९ ॥ भाष्यप्रकाशः। दर्शनाच्च ॥४८॥ शब्देनान्यादर्शनं साधयित्वा प्रत्यक्षेणापि साधयतीत्याशयेन व्याकुर्वन्ति दृश्यते इत्यादि । स्वानुभवमिति । स्वयं समाधावनुभूतम् । शेषं निगदव्याख्यातम् ॥ ४८ ॥ श्रुत्यादिबलीयस्त्वाच्च न बाधः ॥ ४९ ॥ सूत्रमवतारयन्ति नन्वित्यादि। ननु मास्त्वस्य पूर्वप्रकरणशेषत्वम्, तथाप्यस्य प्रपाठकस्यान्र्तमेकवाक्यत्वं तु निःसन्दिग्धम्, विषय- रश्मिः। दर्शनाच्च ॥ ४८ ॥ शब्देनेति । 'नान्यत् पश्यती'त्यादिशब्देन । दृश्यत इत्यादि । सर्वात्मभावो व्रजसीमन्तिनीनां 'सर्वात्मभावोऽधिकृतो भवतीनामधोक्षज' इत्यत्र भ्रमरगीते 'गोपगोपाङ्ग- नावीत'मिति गोपालतापनीये 'गोप्यो नाम विष्णुपत्न्यः स्यु'रिति गोपीचन्दनोपनिषदि । पुराणहृदयैरत्र सर्वेन्द्रियव्यापारा भगवत्परा उन्नेयाः । ननु दर्शनं शाब्दं व्यासानामस्त्विति चेत् । न । पुनरुक्त्यापत्तेः । समाधाविति । 'अनर्थोपशमं साक्षाद्भक्तियोगमधोक्षज' इति समाधिभाषोक्तभक्तिः समाधावनुभूता, तत्प्रपञ्चः 'चित्तं सुखेने'त्यादिस्तदात्मक एव । भाष्ये ज्ञानशक्तितिरोधानं चित्तहरणेन । न च 'मनसैवानुद्रष्टव्य' इति श्रुतेर्मनसः क(ा)रणत्वमिति शङ्क्यम् । 'नेह नानास्ति किञ्चने'त्यग्रेतनश्रुत्या तस्याभेदज्ञानकरणत्वात् । अतो ज्ञानमार्गीयं करणं विधाय चित्तं सुषुप्तिग्राहकं भूम्नः सुषुप्तित्वाद्भूमा- धिकरणपूर्वपक्षे तद्ग्राहकं गृहीतम् । 'करावपी'त्यादिना क्रियाशक्तितिरोधानम् ॥ ४८ ॥ श्रुत्यादिबलीयस्त्वाच्च न बाधः ॥ ४९ ॥ व्यवहारे वयं भाट्टा इति वदतां वेदान्तिनां मायावादिनामासङ्कामाहुरित्याशयेनाहुः नन्वित्यादि । आन्तम्प्रित्यादि । अन्तम् आ अभिव्याप्य आन्तम् । एकवाक्यत्वं स्वार्थबोधे समाप्तानां 'नात्मवित् , तरति शोकमात्मवि'दित्यादीनां वाक्यानां 'यत्र नान्य'- दिति भूमलक्षणवाक्यस्याङ्गाङ्गित्वार्यापेक्षया पुनरेकवाक्यत्वं संहत्य जातं पूर्वतन्त्रिणं निःसन्दिग्धं तृतीये तृतीयपादे निःसन्दिग्धम् । विषयस्य श्रीपुरुषोत्तमस्य भेदौ क्षराक्षरात्मकौ, तयोरत्र निरूपणीयत्वेना- भावात् । विषयनिष्ठोऽक्षरस्य वा भेदस्तस्याभावात् । विषयोऽक्षरो नेत्यन्योन्याभावविषयिणी प्रतीतिः । १. एकमेव । 1927