अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2056, कुल 2600 में से
संदर्भ में पढ़ेंएतच्च 'विधेय तु निर्धारणा'दित्यत्र निरूपितम् । अपरं च, 'नात्मवित्, तरति शोकमात्मवि'दितिनारदवाक्यानुवादयो- भाष्यप्रकाशः। दपि पुरुषोत्तमस्य लिङ्गम् । 'पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यये'ति गीतावाक्यात् । एतल्लिङ्गं चकाराद् भूमादिश्रुतिः उभयमपि 'विधेये'ति सूत्रे निरूपितम् । अत्र श्रुतिबोधको ग्रन्थः प्रायस्त्रुटित इति प्रतिभाति । पूर्वोक्तस्य लिङ्गस्य श्रुत्यन्तरस्थत्वात् प्रकृतसन्दर्भस्थं लिङ्गं दर्शयन्ति अपरं चेति । नारदवाक्यानुवादयोरिति । नारदवाक्ये तदनुवादे च । उत्तमप्रभात्मकेनेति । 'अस्ति रश्मिः। कार्त्स्न्यं एकत्र, अन्यत्रावधारणे बोध्यम् । गीतेति । सर्वात्मभावस्य लिङ्गं तु 'भगवान् भजतां मुकुन्दो मुक्ति ददाति कर्हिचित् स्म न भक्तियोग'मिति वाक्यात् । भूमेति । भूमरूपनिरपेक्षो रवः भादिना पुरुषोत्तमरूपनिरपेक्षो रवः । विधेयेतिसूत्रे पुरुषोत्तमरूपनिरपेक्षो रवो नास्ति । सर्वात्मभावरूपो रवश्चेत्याहुः अत्रेति । 'नायमात्मे'ति आत्मरवः पुरुषोत्तमवाची, 'तपसो वाप्यलिङ्गा'दिति सर्वा- त्मभाववाची । तथाप्युपपादनसापेक्ष इति प्राय इत्युक्तम् । श्रुत्यन्तरेति । मुण्डकश्रुत्यन्तरेत्यर्थः । काठकश्रुत्यन्तरेत्यर्थश्च । अत्र 'नायमात्मे'त्यादिवाक्यस्यात्मलाभसामर्थ्यं 'लभ्य' इति पदादालोचितम् । तनुविवरणसामर्थ्यं 'विवृणुत' इति शब्दादालोचितम् । द्वितीयस्य 'नायमात्मे'त्यादिवाक्यस्य धामवेशन- सामर्थ्यं 'विशत' इति शब्दादालोचितम् । तयोः स्वार्थबोधे समाप्तयोर्वाक्ययोः पुनराकाङ्क्षावशेनैकवा- क्यतया वरणलिङ्गं सर्वात्मभावः 'वरणजसर्वात्मभावे'ति भाष्यात् । तथा च निःसाधनो यः कोप्यु- क्तभक्तेरङ्गम् । वरणमात्रस्य साधनत्वमुक्त्वा पुनर्बलाभावनिषेधेनात्मलाभवाक्यस्य बलाप्रमादयोर्वाक्यस्य च सामर्थ्यमालोच्य परस्पराकाङ्क्षयैकवाक्यतया 'श्रेयोभिर्विविधैश्चान्यैः कृष्णे भक्तिर्हि साध्यत' इति वाक्याद्विविधश्रेयोवानुक्तभक्तेरङ्गम् । 'एतैरुपायै'रिति श्रुतादुपायपदाच्च पुष्टिमार्गीयः, अपि तु मर्यादामार्गीयः । भक्तिहंसे स्पष्ट एवायमर्थः । तथा च यः कोपि वरेण सर्वात्मभावं लभेतेति श्रुतिं कल्पयति पूर्वं लिङ्गम् । द्वितीयं तु लिङ्गं विविधश्रेयोवान् बलप्रमादाभ्यामात्मानं लभेतेति श्रुतिं कल्पयति । एवञ्च यत्पूर्वपक्षिणोक्तं वाक्यात् ज्ञानप्रकारविशेषः प्रकरणाल्लिङ्गस्य सन्दिग्धस्य बाध इति । तन्नोपपद्यते । लिङ्गस्यासन्दिग्धत्वात् तेन दुर्बलवाक्याच्च ज्ञानप्रकारविशेषः, प्रकरणं तु दुरापास्तम् । तथा च यथा तृतीयस्य तृतीयपादेऽष्टमाधिकरणे 'स्योनं ते सदनं कृणोमि घृतस्य धारया सुसेवं कल्पयामि । तस्मिन् सीदामृते प्रतितिष्ठ ब्रीहीणां मेध सुमनस्यमान' इति । अस्य मन्त्रस्यार्थः । भोः पुरोडाश ते तव स्योनं समीचीनं सदनं स्थानं कृणोमि । विकरणव्यत्ययान्न तनादिकृञ्प्रत्ययः, किन्तु जुहोत्यादिभ्यः श्लुः शपोपवादः । करोमीत्यर्थः । तव स्थानं घृतस्य धारया सुष्ठु सेवितुं योग्यं सुसेवं कल्पयामि । भो ब्रीहिसारभूत त्वं ब्रीहीणां मेध सुमनस्यमानः समाहितमनस्कस्तस्मिन् समीचीने उपविश तत्र स्थिरो भवेत्यर्थः । तत्र 'तस्मिन्' इत्यनेन पूर्वोत्तरयोरेकवाक्यत्वे सति सर्वोऽप्ययं मन्त्रः स्थानकरणसाङ्गम् । तत्र विनियोजिका श्रुतिरेवं कल्पनीया सर्वेणानेन मन्त्रेण स्थानं कर्त्तव्य- मिति । तथा सर्वेण मन्त्रेण पुरोडाशः स्थापनीय इत्यपि कल्पनीया । सदनाङ्गत्ववत् प्रतिष्ठापनाङ्गत्व- स्यापि तद्वाक्यबोधितत्वात् । तथा सति सदनस्थापनयोरस्य मन्त्रस्य विकल्पः समुच्चयो वा स्वेच्छया भविष्यतीति प्राप्ते, सिद्धान्तितम् । यदेतत्पूर्वोत्तरार्धयोः परस्परान्वयेव सम्भवन्नेकवाक्यं तदेतदुत्तरार्धस्य