अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2055, कुल 2600 में से
संदर्भ में पढ़ें१९४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० १ अ० १७ सू० ४९. भाष्यप्रकाशः। अयमर्थः । सत्यमिदमात्मबोधकमान्तमेकं वाक्यम्, उपक्रमश्च बलीयान्, तथापि स नाश्वप्रतिग्रहेष्टिवाक्य इव निःसन्दिग्धः । तत्रात्मपदस्य जीवाक्षरपुरुषोत्तमसाधारण्यात् । तथा सति तत्र को वा ग्राह्य इति विमर्शे, नारदस्य शोकतारकात्मज्ञानार्थं प्रष्टुं प्रवृत्तत्वेन तादृश एवात्मा ग्राह्यः । स च निरवधिसुखरूपत्वात् पुरुषोत्तम एव, न जीवः, नाप्यक्षरम् । आद्यस्य दुःखित्वादन्यस्य गणितानन्दत्वात् । अतो निरवधिसुखरूपात्माभिधायिका या भूमश्रुतिः, सा वाक्यात् बलीयसी । बुभुत्सितात्मस्वरूपनिर्णायकत्वात् । किञ्च । 'आत्मलाभान्न परं विद्यत' इति श्रुत्यन्तरे आत्मलाभस्य परमलाभत्वश्रावणाच्छोकतारकोऽप्यात्मा लभ्यमान एव शोकं तार- यति, न त्वलभ्यमानः । लाभश्च न ज्ञानमात्रम्, किन्तु स्वाधीनतापुरस्कृतम् । प्रकृते च 'यदा वै सुखं लभत' इत्यादिकथनाल्लभ्यमानस्यैव निरवधिसुखरूपस्य भूम्नः शोकतारकत्वमभिसंहि- तम् । तस्य च 'इतरनिषेधे'त्याद्युक्तरीत्या वरणश्रुतिस्तन्मात्रलभ्यत्वमाह । एतदग्रे च 'नायमा- त्मे'ति भक्तिलभ्यत्वबोधिका श्रुतिः पठ्यते । अत आत्मज्ञानस्य ज्ञायमानस्यात्मनो वा शोक- तारकत्वसम्पादिका 'लभत' इति लाभश्रुतिश्च तादृशी । तथा 'यमेवैष' इति श्रुतिर्वरणमात्रल- भ्यत्वमात्मन आह । तदग्रिमा च भक्त्यादिलभ्यत्वम् । तानि च वरणस्यैव व्यापारभूतानि । एत- रश्मिः। इतरेत्यादिभाष्ये कस्य इतरनिषेधेत्यादीत्यपेक्षायां भूम्नः सर्वात्मभावरूपस्येत्याहुः अयमर्थ इति । अश्वेति । इयं तृतीयस्य चतुर्थचरणे चतुर्दशाधिकरणेऽस्ति । भूमेति । 'नायमात्मे'त्यत्र बलं निरपेक्षत्वरूपं भूमश्रुतिः 'तपसो वाप्यलिङ्गा'दित्यत्र निरपेक्षत्वरूपं वा भूमश्रुतिः, प्रकृते तु 'स भूमे'ति भूमरूपा निरपेक्षत्वरूपा श्रुतिः उपक्रमगतात्मवाक्याद्बलीयसी । न च विनियोगविधेरभावात् कारणाभावे सहकारिणां कारणानां कथमुपयोग इति वाच्यम् । पूर्वतन्त्रवत् कारणत्वाभावात् । तत्रत्यबलाबल- मात्रादरणात् । न च श्रुतिर्वेदः सूत्र इति शङ्कम् । जैमिनेर्व्यासशिष्यत्वेन फलाध्याये 'परं जैमिनि- र्मुख्यत्वा'दित्यादिसूत्रे तन्नामग्रहणात् । अन्यथा वेदादिबलीयस्त्वादित्येव सूत्रयेत् । बुभुत्सितेति । बोद्धुमिष्टात्मनः । 'सुखं भगवो विजिज्ञास' इति श्रुतेः । शोकमिति । ननु पञ्चम्या भाव्यम्, तरणे- उपादानत्वात् । मैवम् । जीवः शोकं तरति