अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2064, कुल 2600 में से
संदर्भ में पढ़ेंवान् भवति । तदेतदुक्तं 'एवं विजान'न्नित्यनेन । अत एवोपसर्ग उक्तः । ततोऽति- दैन्येनाविर्भावे सति या अवस्थाः, ता निरूपिता 'आत्मरति'रित्यादिना । अत्रात्म- शब्दाः पुरुषोत्तमवाचका ज्ञेयाः । अन्यथौपचारिकत्वं स्यात् । मुख्ये सम्भवति तस्या- युक्तत्वात् । ननु सर्वात्मभावस्यापि मुक्तौ पर्यवसानम्, उत नेति संशयनिरा- भाष्यप्रकाशः । व्याख्यायाग्रिमग्रन्थं योजयन्ति ततोऽतिदैन्य इत्यादि । सूत्रांशमवतारयन्ति नन्वित्यादि । ननूक्तयुक्तिभिरत्र भवतु सर्वात्मभावः, तथाप्यत्र फलत्वेन सर्वग्रन्थिप्रविमोक्षस्यैवोक्तत्वात्तस्य च 'भिद्यते हृदयग्रन्थि'रिति श्रुत्यन्तरस्वारस्येन परावरदर्शनस्य यत्फलं तस्यैवात्र ग्राह्यत्वात्तस्य च 'तमेवं विद्वानमृत इह भवती'त्यादिश्रुत्यन्तरेषु मुक्तिरूपस्यैव सिद्धत्वादस्य भावस्यापि मुक्तावेव पर्यवसानमिति फलतो न कश्चिद्विशेषः । अथ, न, तदोक्तस्य फलवाक्यस्य विरोध इत्यस्यापि फलबलेन पूर्वज्ञानविशेषत्वमेवादर्तव्यमितिशङ्कानिरासाय दृष्टान्तमाहे- रश्मिः । तदुक्तमित्यर्थः । अग्रिममिति । अनुबन्धादिभ्यः किं भवतीत्याकाङ्क्षायामात्मरत्यादि भवतीति सूत्रं योजयितुमग्रिममित्यादिः । तत इत्यादि । ननु 'भक्त्याहमेकया ग्राह्य' इति वाक्येन सर्वात्मभा- वस्य पुरुषोत्तमाविर्भावकारणत्वोक्तेरतिदैन्यस्याविर्भावकारणत्वं कथमिति चेत् । न । भक्तित्वेनेति वदामः । यतोत्र भाष्येऽतिदैन्यस्याविर्भावहेतुत्वोक्तिरत्यन्तःपातित्वेन भक्तित्वात् । अत एव भगवदाविर्भावे भक्तदुःखं 'भूमिर्माता तथा चान्ये दुःखभाजो हरिप्रिये'ति कारिकया हेतुत्वेनोक्तम् । सूत्रांशमिति । प्रसङ्गसङ्गत्या सूत्रांशेऽग्रेतनसूत्रेषु त्रिषु च फलं विचारयन्तः सूत्रांशमित्यर्थः । प्रदान- वत्सूत्रे सर्वात्मभावसाधनं लिङ्गभूयस्त्वादिसूत्रे प्रमाणप्रमेये विचार्य फलं विचारयितुं सूत्रांशादारभ्य विचारः । चतुर्भिर्विचार एकादशस्कन्धसर्वस्वत्वात् सर्वात्मभावस्य । तथाचानुबन्धादिभ्य आत्मर- त्यादि भवति, अतः सर्वात्मभावस्य न बाधः । आत्मरत्यादिना तज्जनकत्रिविधस्फूर्तेः सर्वात्मभावरत्यादि- जनकत्रिविधस्फूर्त्या सर्वात्मभावस्यानुमानात् । पुष्टिमार्गीयात्मरत्यादिजनकस्फूर्तिवारणाय सर्वात्मभाव- रत्यादिजनकेति विशेषणम् । अथ नेति । न मुक्तौ पर्यवसानमपि त्वतिदैन्येनाविर्भावे सति या अवस्था आत्मरत्याद्यस्ता एवेत्युत नेति भाष्यं व्याकृतम् । विरोध इति । सन्देहगुर्वचः । अत- 'स्ततः श्लोकैस्तद्भावस्वरूपमुक्त्वैतस्य मूलकारणमाहारशुद्धा'वित्यादिनेति भाष्यस्य न विरोधः । पूर्व- ज्ञानेति । पूर्वप्रपाठकोक्तभेदज्ञानेत्यर्थः । शङ्केति । ननु शङ्का तर्कः संशयो विरुद्धकोट्यवगाहि ज्ञानमिति भाष्यस्थसंशयपदविवरणं शङ्केत्यनुपपन्नमिति चेत् । न । एतादृशव्याख्याने शङ्कापदस्य संशया- विवरणत्वात् । संशयस्याथ नेत्यन्तग्रन्थे परिसमाप्तेः । दृष्टान्तमिति । मुक्त्यपर्यवसाने दृष्टान्तम् । ननु ह्यात्मरत्यादिजनकसर्वात्मभावलिङ्गात्मकभावे दृष्टान्तमित्यर्थः कुतो न कृत इति चेत् । न । सूत्राणाम- ल्पाक्षरत्वात् । 'अल्पाक्षरमसन्दिग्ध'मित्यादिवाक्यात् । स्फुटं सर्वनिरूपणे त्वल्पाक्षरत्वं भज्येत । संशय