अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2065, कुल 2600 में से
संदर्भ में पढ़ें४०४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ३ अ० १७ सू० ५०. सा च दृष्टान्तमाह प्रज्ञान्तरपृथक्त्ववदिति । मुमुक्षुभक्तस्य क्लेशदातृत्वेन भगवद्वि- षयिणी या प्रज्ञा, सा सर्वात्मभाववद्भक्तप्रज्ञातः प्रज्ञान्तरमित्युच्यते । तच्च कर्मज्ञा- नतदितरभक्तप्रज्ञाभ्यः पार्थक्येन तदिष्टमेव साधयति यथा, तथा सर्वात्मभाववतो भक्तस्य यत्प्रकारिका भगवद्विषयिणी प्रज्ञा, तमेव प्रकारं स भावः साधयति, नान्य- मिति न मुक्तौ पर्यवसानमित्यर्थः । अत्र व्यासः स्वानुभवं प्रमाणत्वेनाह दृष्टञ्चेति । उक्तभाववतो भक्तस्य प्रभुरूपदर्शनाद्यतिरिक्तफलाभावोऽस्माभिरेव दृष्ट इत्यर्थः । एतादृशा अनेके दृष्टा इति नैकस्य नाम गृहीतम् । अत्र शब्दमपि प्रमाणमाह तदुक्त- मिति । भगवतेति शेषः । श्रीभागवते दुर्वाससं प्रति 'अहं भक्तपराधीन' इत्युपक्रम्य, 'वशे कुर्वन्ति मां भक्त्या सत्स्त्रियः सत्पतिं यथे'ति । यो हि यद्वशीकृतः, स तदि- च्छानुरूपमेव करोति, अतो न सायुज्यादिदानम्, किन्तु भजनानन्ददानमेव । तेषां मुक्त्यनिच्छा तु 'मत्सेवया प्रतीतं च सालोक्यादिचतुष्टयम् । नेच्छन्ति भाष्यप्रकाशः । त्यर्थः । दृष्टान्तं व्याकुर्वन्ति मुमुक्षुभक्तस्येत्यादि । तथाच अन्या प्रज्ञा प्रज्ञान्तरम्, तत्कृतं पृथक्त्वं प्रज्ञान्तरपृथक्त्वम्, षष्ठ्यर्थे वतिः । अतः प्रज्ञान्तरफलसेवैतत्फलस्यापि पृथक्त्वमेवेति नैतस्य बाध इत्यर्थः । नच फलोक्तिविरोधः । दर्शनस्य प्रागेव जातत्वेन अविद्याकामकर्मजन्यहृदयग्रन्थिभेदस प्रागेव जातत्वाद्रत्र ततोऽतिरिक्तस्यैव फलस्य सर्वेषां एकत्वपर्यन्ताशास्यस्वरूपाणां ग्रन्थीनां प्रकृष्टो विलक्षणो यो मोक्षः पुनस्तदनुद्भवद्रूपस्तस्याभिप्रेतत्वेनाविरोधात् । अग्रिमं शेषद्वयमवतारयन्ति अत्र व्यास इत्यादि । अत्र शब्दमित्यादि च । तादृशां मुक्तिपर्यन्तानिच्छां निगमयितुमाहुः तेषां मुक्त्यनिच्छेत्यादि । तथाच ज्ञानमार्गीयभगवद्दर्शने हृदयग्रन्थिभेदनं नानाविधवृत्त्यनुदयरूपम्, रश्मिः । प्रज्ञान्तरेति । अत्र पृथक्पदार्थः फलत्वेन गृहीतः । प्रज्ञान्तरकृतपृथक्पदार्थफलस्येवेत्यर्थः । न च प्रज्ञान्तरपृथक्त्वस्येवेति वक्तव्यमिति वाच्यम् । पृथक्फले तात्पर्यात् । कीदृशोद्भूतो घट इति वक्तव्ये कीदृशमद्भूतं घटत्वं येनेदृशो घट इति तात्पर्येण कीदृशमद्भूतं घटत्वमिति प्रयोगवत् । एतत्फलस्येति । सर्वात्मभावफलस्य । नैतस्येत्यत्र पूर्वसूत्रादनुवर्तितमत्राप्यनुषञ्जितम् । तेन प्रज्ञान्तरपृथक्त्ववन्न बाध इति वाक्यभेदः । वाक्यभेदस सूत्रेऽदोषत्वं अल्पाक्षरत्वसारवत्त्वाभ्याम् । भाष्ये । यत्प्रकारिका भजनानन्ददातृत्वप्रकारिका । तमेव भजनानन्ददातृत्वं भजनानन्द एव । तथा च भजनानन्दमेव । प्रकृते । फलेति । आहारशुद्धाविति श्रुत्युक्तफलोक्तीत्यर्थः । प्रागेवेति । 'मुक्तोपसृप्यव्यपदेशा'दिति व्याससूत्रात्तथा । तथा च पाठक्रममनादृत्यार्थक्रमेणाहारशुद्ध्यादिना मुक्तः सर्वात्मभाववानुपसर्पति भगवन्तमिति पाठक्रमानादरे हेतुरुक्तः । तथा च भाष्यं ततः श्लोकैरित्यादि लिङ्गमभूत्स्वसूत्रस्य । अत्रेति । भक्तिमार्गे इत्यर्थः । पुनरिति । 'भजते नैव तादृश' इति निबन्धादविद्यानुद्भवेन तथा । अभीति । प्राग्जातत्वाविरोधात् । न च पूर्वापरभावविरोधः । पाठक्रममनादृत्यार्थक्रमादत्र 'अग्निहोत्रं जुहोति यवागूं पचती'तिवत् पूर्वापराविरोधात् । अत्र व्यास इति । दृष्टः समाधिभाषोक्तसमाधौ । अनेके जैमिन्यौडुलोमिप्रभृतयः सूत्रप्रसिद्धा अस्माभिर्दृष्टा इत्यर्थो भाष्यस्य दृष्टान्तोऽनेकदृष्टदानात् । प्रमाणमिति भाष्यं नैयायिकप्रसिद्ध्या, अन्येषां श्रौतप्रामाण्यात् । दर्शनेति । ज्ञानमार्गीयत्व- 1940