अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2079, कुल 2600 में से
संदर्भ में पढ़ेंभूम्नः क्रतुवज्ज्यायस्त्वं तथाहि दर्शयति ॥ ५७ ॥ (३-३-१९.) ननु सुखस्वरूपजिज्ञासायां 'यो वै भूमा तत् सुख'मित्युक्तम्, भूमस्वरूप- जिज्ञासायां 'यत्र नान्यत् पश्यती'त्यादिना तल्लक्षणं निरूपितं तत्सर्वात्मभावस्वरूप- मिति यदुक्तम्, तन्नोपपद्यते । भूम्नो हि सुखरूपतोच्यते । सर्वात्मभावे तु विर- हभावे दुःसहदुःखानुभवः श्रूयते । तेन मोक्षसुखमेव 'यो वै भूमे'त्यादिनोच्यते । 'यो वै भूमा तदमृत'मिति वाक्याच्च । अग्रे च, 'स वा एष एवं पश्य'न्नित्याद्यु- क्त्वा, 'तस्य सर्वेषु लोकेषु कामचारो भवती'ति फलमुच्यते । तच्च मोक्षानन्तरम- सम्भवि, अतः स भावो मोक्षो वात्रोच्यत इति संशयः । तत्र कामचारोक्तेर्मुक्तिपूर्वदशायां तन्माहात्म्यनिरूपणार्थत्वादमृतशब्दाच्च मुक्तिरेव भूमपदेनोच्यत इति पूर्वः पक्षः । तत्र भूमशब्देन स भाव एवोच्यत इति सिद्धान्तः । तत्र दुःखदर्शनानुप- पत्त्या सर्वाधिकत्वलक्षणं भूमत्वमनुपपन्नमिति शङ्कां परिहरति । भूम्नः सर्वात्म- भावस्य ज्यायस्त्वं सर्वस्मान्मन्तव्यम् । तत्रोक्तानुपपत्तिपरिहारार्थं दृष्टान्तमाह क्रतुवदिति । दर्शपूर्णमासप्रकरणे तैत्तिरीयके पठ्यते 'परमेष्ठिनो वा एष यज्ञोऽग्र आसीत्तेन स परमां काष्ठामगच्छ'दित्युपक्रम्य, 'य एवं विद्वान् दर्शपूर्णमासौ
भाष्यप्रकाशः।
भूम्नः क्रतुवज्ज्यायस्त्वं तथाहि दर्शयति ॥ ५७ ॥ प्रासङ्गिकं विचार्य पुनः प्रकृ- तशेषमेव विचारयतीत्याशयेनाधिकरणमवतारयन्तः संशयं व्युत्पादयन्ति नन्वित्यादि । तद्य- दिति । भूमस्वरूपम् । श्रूयते इति । पुराणवाक्येभ्यः श्रूयते । तेनेति । सुखस्य दुःखविलक्षण- त्वेन । यो वै भूमा तदमृतमिति वाक्याच्चेति । इदमपि 'तन्नोपपद्यत' इत्यत्र 'मोक्षाङ्गीकारे' च हेत्वन्तरम् । तत्रानन्तरं दुःखसद्भावेन सुखस्यामृतत्वाभावात्, मोक्षे चानन्तरं दुःखाभावेन सुखस्यामृतत्वादिति । एवं मोक्षकोटिर्व्युत्पादिता । अग्रे चेत्यादिना असम्भवीत्यन्तेन सर्वा- त्मभावकोटिव्युत्पादनम् । अत उभयबीजसद्भावादेवं संशय इत्यर्थः । पूर्वपक्षमाहुः तत्रेत्यादि । कामचारोक्तेरिति षष्ठी । सिद्धान्तमाहुः तत्र भूमेत्यादि । सम्प्रसादाधिकरणे भूमशब्देन परमात्मनो निर्णीतत्वा- ल्लिङ्गभूयस्त्वाधिकरणे सर्वात्मभावस्यापि निर्णीतत्वादत्र भूमलक्षणवाक्ये भूमपदेन स भावः सर्वात्म- भावसहित एव परमात्मोच्यते । यथा 'घटेन जलमाहरे'त्यादौ घटादिपदेन छिद्रेतरत्वादिसहितो घटादिः, तद्वदिति सिद्धान्त इत्यर्थः । एवं सिद्धान्तं सामान्यत उक्त्वा तं व्युत्पादयितुं सूत्रमवतारयन्ति तत्र दुःखेत्यादि । व्याकुर्वन्ति भूम्न इत्यादि । सर्वात्मभावस्येति । इदं षष्ठ्य- र्थस्य विवरणम् । भूमसम्बन्धिनः सर्वात्मभावस्येत्यर्थः । अत्र लौकिकतन्निरासायैव कथनमिति बोध्यम् । तत्रेति । ज्यायस्त्वप्रतिज्ञायाम् । दर्शपूर्णमासप्रकरण इति । संहिताप्रथमाष्टकपञ्च-
रश्मिः।
भूम्नः क्रतुवज्ज्यायस्त्वं तथाहि दर्शयति ॥ ५७ ॥ प्रकृतेति । सर्वात्मभावशेषम् । पुराणेति । भ्रमरगीतोक्तेभ्यः । श्रुतिवाक्यं तु 'वने वृन्दावने क्रीडन् गोपगोपीसुरैः सह'ति सामान्यम् । तत्रेति । सर्वात्मभावे । भाष्ये । उक्तानुपपत्तीति । दुःखदर्शनानुपपत्त्या सर्वाधिकत्वलक्षण-