अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2080, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ४१९ यजते परमामेव काष्ठां गच्छती'ति । यथा व्रतादिविदुःखत्मकत्वेपि परमकाष्ठा- लक्षणफलगमकत्वेन दर्शपूर्णमासयोः सर्वक्रतुभ्योऽधिकत्वं वक्तुं 'अग्र आसी'दिति स्तूयते, तथा दुःखहेतुत्वेप्यनन्यलभ्यसाक्षात्पुरुषोत्तमानन्दप्राप्तिहेतुत्वेन सुख- रूपत्वमुच्यत इत्यन्येभ्यः सर्वेभ्यो ज्यायस्त्वं मन्तव्यमित्यर्थः । अत्रोपपत्तिमाह । तथाहि दर्शयति । श्रुतिस्तु 'स एवाधस्ता'दित्याद्युक्त्वा, 'अथाहङ्कारादेश' इत्या- द्युक्त्वा, 'अथात्मादेश' इत्याद्युक्तवती, अग्रे चैतादृशस्य 'आत्मत एव प्राणा- शास्मरादिसर्व'मिति च दर्शयति । एतत्सर्वात्मभाववत्येव सर्वमुपपद्यते, न तु मुक्तस्य । वृत्तिभेदाभावात् प्राणाद्यभावाच्च । जीवन्मुक्तिदशायां प्राचीनानामेव सत्त्वात्, 'आत्मतः प्राणा' इत्यादि न वदेत् । भाष्यप्रकाशः। प्रपाठकनवमानुवाके । अग्र आसीदिति । 'परमेष्ठिनो वा एष यज्ञोऽग्र आसीत्' । उच्यत इति । भाविस্বরূপमादायोच्यते । तथाच परमकाष्ठाप्रापकत्वात्तथेत्यर्थः । ननु भाविस্বরূপमादायैवोच्यते, न विद्यमानं स्वरूपमादायेत्यत्र किं गमकमित्याकाङ्क्षायामाहुः अत्रोपपत्तीत्यारभ्य, न वदेदि- त्यन्तम् । तथाच भूमपदेन यदि मोक्षावस्थामभिप्रेयात्, तदैवं त्रिविधा वृत्तीर्न वदेत्, प्राणादीनां नामान्तानां तत्र सम्बन्धं च न वदेत्, तदानीं तदुभयाभावात्, अतस्तदन्यथानुपपत्त्या भूमलक्षणे सर्वात्मभावभाविस্বরূপमेवोच्यत इति सर्वात्मभावसहित एव भूमा, न तु मोक्षावस्था । नापि जीवन्मुक्तावस्थेति युक्तम् । तां चेदभिप्रेयात्, तदा 'आत्मतः प्राणा' इत्यादि न वदेत्, तस्यामव- स्थायां प्रारब्धवशादेव पूर्वप्राणादीनां सत्तायाः सत्त्वात्, अतो द्विविधस्यापि मोक्षस्यात्रादातुमश- क्यत्वात् सर्वात्मभावोत्र ग्राह्य इत्यर्थः । रश्मिः। भूमत्वानुपपत्तिपरिहारार्थम् । प्रकृते । भावीति । परमकाष्ठापन्नस्वरूपमादाय । तथेत्यर्थ इति । ज्यायस्त्वमित्यर्थ इत्यर्थः । विद्यमानमिति । दुःखरूपम् । त्रिविधेति । 'स एवाधस्ता'दित्युक्ता । अहङ्कारादेशरूपा । आत्मादेशरूपा च । एतच्च प्राणाद्यभावाच्चेति भाष्याग्रे न वदेदित्यस्य सम्बन्धं कृत्वा योजितं ज्ञेयम् । जीवन्मुक्तीत्यादिभाष्ययोजना प्राणादीनामित्यादि । प्राचीनाना- मित्यस्य विशेषणमपीदम् । च पुन'स्तस्य वा एतस्यैवं पश्यत एवं मन्वानस्यैवं विजानत आत्मतः प्राण आत्मत आशे'त्यादि । मध्ये 'आत्मत आविर्भावतिरोभावा'विति । उपान्ते 'आत्मतो नामे'ति । अन्ते 'आत्मतो मन्त्राः, आत्मतः कर्माणि, आत्मत एवेदं सर्व'मिति । अत्र नामान्तानां तत्र जीवन्मुक्ते तथा । तदानीमित्यादि । सर्वात्मभावेन भावि फलं तस्य स्वरूपं तस्य काले इत्यर्थः । तदुभयेति । निःसम्बो- धमोक्षजीवन्मोक्षोभयं तदभावात् । तदन्यथेति । प्राणादिनामान्तसम्बन्धस्य सर्वात्मभावभावि- स्वरूपकल्पनं विनानुपपत्त्या । एवकारस्तु ब्रह्मवित्प्रपाठके आनन्दमयान्तानि रूपाण्युक्त्वा श्राव्यते । 'अथातोऽनुप्रश्नाः । उता विद्वानमुं लोकं प्रेत्य कश्चित् समश्नुते ।' 'सोऽकामयते'त्याद्युक्त्वा तत्र दशर- सात्मकजगदित्युक्तम् । मध्ये 'रसो वै स' इत्युक्त्वा 'स य एवंवित् । अस्माल्लोकात् प्रेत्य । एतमन्नमयमात्मानमुपसंक्रामती'त्याद्युक्त्वा 'एतमानन्दमयमात्मानमुपसंक्रामति, तदप्येष श्लोको भवति । यतो वाचो निवर्तन्ते अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चने'ति श्रुतेः । तामिति । मोक्षावस्थां जीवन्मुक्तावस्थां वा । तस्यामिति । जीवन्मुक्तावस्थायाम् । न वक्तुं शक्यमिति 1955