अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2081, कुल 2600 में से
संदर्भ में पढ़ें४२० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० ३ अ० १९ सू० ५७. यद्वा । ननु लोकेऽपि शृङ्गाररसभाववति पुंसि नार्यां वा त्वदुक्तभावसम्बन्धि- व्यभिचारिभावाः श्रूयन्ते । सैव सर्वत्र, स एव सर्वत्रेति । एवं सति लौकिकसधर्म- वत्त्वाञ्च त्वदुक्तभावस्यालौकिकज्ञानादिभ्य आधिक्यं वक्तुं शक्यम्, अलौकिक- विषयत्वालौकिकत्वमपि न तथेति भवति संशयः । तत्र मनुजत्वरिपुत्वाविज्ञानाना- मिव कामादिभावेन स्नेहभावस्यापि सम्भवान्नास्यालौकिकत्वमिति पूर्वः पक्षः । सिद्धान्तस्त्वस्य भावस्य लौकिकेभ्यो ज्यायस्त्वं मन्तव्यम् । ननूक्तं लोक- साधारण्यं बाधकमिति शङ्कानिरासाय निदर्शनमाह क्रतुवदिति । यथा दर्शा- दिषु दोहनाधिश्रयणातञ्चनब्रीह्यवघातादिपुरोडाशभक्षणादीनां लौकिकक्रियातु- ल्यत्वेन दर्शनेऽपि न लौकिकत्वम्, लौकिकप्रमाणाप्राप्तत्वादलौकिकतत्प्राप्तत्वात्, तथोक्तप्रमाणरूपवरणलभ्यत्वेन श्रुत्युक्तत्वाञ्च लौकिकत्वमस्य भावस्येति दिक् । वस्तुतस्तु ग्रामसिंहस्य सिंहस्वरूपत्वेऽपि न ताद्रूप्यं वक्तुं शक्यम् । तथा लौकिकपुंसि नार्यां वा तदाभासो रसशास्त्रे निरूप्यते, तद्दृष्टान्तेन भगवद्भावव- त्सूक्तरितिभावनार्थम्, न तु ऋषीणां लौकिके तात्पर्यं भवितुमर्हति । अत्रोपपत्ति- भाष्यप्रकाशः। एतत्सार्थस्य पूर्वाधिकरणत्वेन सामान्यसूत्रार्थविचारेणापि सिद्धप्रायत्वमित्यरुच्या वर्ण- कान्तरेण सूत्रं व्याकुर्वन्ति यद्वेत्यादि । श्रूयन्त इति । साहित्यग्रन्थेषु भरतसूत्रादौ चोच्यन्ते । अलौकिकज्ञानादिभ्य इति । लोकविलक्षणेभ्योऽक्षरज्ञानमुक्तिजीवन्मुक्तिभ्यः । न तथेति भवति संशय इति । न वक्तुं शक्य इति लौकिकसजातीयधर्मवत्त्वालौकिकविषयत्वाभ्यां हेतुभ्यां भवति संशय इत्यर्थः । पूर्वपक्षमाहुः तत्रेत्यादि । तत्रेति । भगवति । सिद्धान्तं वदन्तः सूत्रं व्याकुर्वन्ति सिद्धान्त इत्यादि । प्रतिज्ञायां हेतुं वक्तुं नन्वित्यादिना बाधकमाशङ्क्य दृष्टान्तं व्युत्पादयन्ति यथेत्यादि । उक्तप्रमाणरूपवरणलभ्यत्वेनेति । अलौकिकप्रमाण- रूपतल्लभ्यत्वेन । तथाच सर्वात्मभावो लौकिकसदृशत्वेऽपि न लौकिकः, अलौकिकप्रमाणप्राप्त- त्वात्, लौकिकप्रमाणाप्राप्तत्वाच्च, यागीयदोहनाधिश्रयणादिवत्, यन्नैवम्, तन्नैवम्, लौकिक- तद्वदिति हेतुसिद्ध्या न प्रतिज्ञायां दोष इत्यर्थः । एतादृशस्य सादृश्यदर्शनजाः शङ्का अविचा- रकसैवोद्यन्ति, न तु विचारकस्येत्याशयेनाहुः वस्तुत इत्यादि । तथाच विचारकस्तु लोकेऽपि तथा तदभावं पश्यन्नैवं शङ्कत इत्यर्थः । ननु यदि न सादृश्येन ताद्रूप्यम्, तदा ऋषिभिर्भर- तादिभिरलौकिकभावधर्मसादृश्यं लौकिके रसे कुतो निरूप्यते, अतस्तद्दर्शनाद्विचारकस्यापि शङ्का उदेत्येवेत्याकाङ्क्षायामृषीणां तथा तन्निरूपणस्य तात्पर्यमाहुः तथा लौकिकेत्यादि । भग- रश्मिः । तथेतीत्यस्यार्थः । सजातीयेति । सधर्मत्वादित्यस्यार्थः । तत्रेत्यादीति । कामादीति । आदिना भयादिपञ्चकम् । 'कामाद्गोप्य' इति वाक्योक्तम् । प्रतिज्ञायामिति । अस्य भावस्य लौकिकेभ्यो ज्यायस्त्वं मन्तव्यमित्यस्याम् । निरूप्यत इति । शास्त्रान्ते 'परमेण समाधिना' शास्त्रकरणोक्तेः । तथा तन्निरूपणस्येति । अलौकिकभावधर्मसादृश्येन लौकिकरसनिरूपणस्य । 1956