अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2098, कुल 2600 में से
संदर्भ में पढ़ेंपरिशिष्टम्। ५ न्यायभेदकत्वात्कर्मभेदः परिहृत इति स्थितम् । तेन प्रामाणिकः, परन्तु सूत्रकारानुशयविरुद्ध इति बोधनाय दूषयन्ति स चिन्त्यत इत्यादिना । चिन्ताहेतुमाहुः न हीत्यादि । हि यतो हेतोः। अस्य शिरोव्रतस्य विद्याधर्मत्वं विद्याभेदकं न भवति, उक्तन्यायेन चोदनाद्यविशेषरूपेणान्यत्रापि तथात्वेन सर्व- विद्याधर्मत्वस्य सिद्ध्या तदभेदकत्वात्, तथा चास्य भेदकत्वमापाद्य ततोन्यधर्मसाधनेन तदसाधकत्वं काकदन्तविचारन्यायमनुसरतीत्युपेक्ष्य इत्यर्थः । इवपदं प्रकारस्य प्रामाणिकत्वबोधनार्थम् । प्रामाणिकत्वेनोपेक्ष्यत्वमसहमोनश्चोदयति नन्वित्यादि । तत्रोपेक्ष्यत्वे बीजभूतामनुपपत्तिं बोधयन्ति सूत्रस्येत्यादि । तत्तात्पर्यकल्पनेति, शिरोव्रतोपदेशतात्पर्यकल्पना । ननु मुख्यार्थबाधः फलमुखो न दोषायेत्यतो दूषणान्तरमाहुः किञ्चेत्यादि । तथा च भवता हि विद्यैकत्वसाधकत्वेनेदं सूत्रं व्याख्यातम्, तथा सति शिरोव्रतस्य प्रकृतग्रन्थविशेषसंयोगेनासङ्कीर्णत्वेपि पूर्वसूत्रोक्तहेतोर्दृढत्वे सम्भवे 'तेषामेवैतां ब्रह्मविद्यां वदेते'त्यत्र यथैतच्छब्दस्तथा सर्वत्र धर्मकथन एतच्छब्ददर्शनेन तद्धर्मोपसंहारस्य प्राप्तावसरत्वाद्युक्ताशङ्काया अनिवृत्तिप्रसङ्गादस्य सूत्रस्योक्तरीत्योपसंहारनियमबोधकतयैव व्याख्यान- मुचितम्, एवं च नियमविशेषस्यैवो पसंहारपदार्थत्वाल्लक्षणस्यापि सौत्रत्वसिद्धिरिति गुणोपि । तस्मान्मतान्तरीयव्याख्यानमुपेक्ष्यमेवेत्यर्थः । एवं मतान्तरनिरासेनैतत्सूत्रार्थं निष्कृष्य पुनः सिंहावलोकनेन स्थूणाखननवत्पूर्वसूत्रार्थं दृढीकर्तुं चिन्तान्तरमारभन्ते नन्वित्यादि । पूर्वोक्तेरीतेरिति, अनन्तरूपत्वसमर्थनरीत्या । शेषग्रन्थस्तु निगदव्याख्यातः । तथा च निर्धारासम्भवे धर्माणां मायिकत्वमेव शरणीकरणी- यम् । तथा सति स्वरूपपराणामेतच्चिन्ताया अनुपयोगात्पूर्वोक्तशङ्काया अनिवृत्तावप्यदोष इति मतान्तरीयव्याख्यानं साध्वेवेति भावः । तत्र तन्निर्धारणचिन्तासार्थक्याय समादधते अभिधीयत इति । तत्र पूर्वं निरवयवत्वेपि यथावतारेष्वंशत्वं प्रकारं बोधयितुं रामानुजा- दिमतस्याप्येकदेशत्वं बोधयन्तोऽंशं च प्रयोजकं वदन्ति सत्त्वमित्यादि । अत्र वाक्ये सत्त्व- विशेषणाभ्यां प्रियापदविशुद्धपदाभ्यां सत्त्वस्य प्राकृतत्वं व्यावर्यते । 'मां भजन्ति गुणाः सर्वे निर्गुणं निरपेक्षकमिति, 'विलज्जमानया यस्य स्थातुमीक्षापथेऽमुये'ति वाक्याभ्यां तस्य गुणानामप्रियत्वेन तस्य अविशुद्धत्वेन च बोधनाय तद्गुणस्य सत्त्वस्य प्रियत्वशुद्धत्वयोरशक्यवचनात् । न चाप्रसिद्ध्या नैव- मिति शक्यम्, 'सत्त्वं रजस्तम इति निर्गुणस्य गुणास्त्रय' इति द्वितीयस्कन्धे त्रयाणां भगवद्गुणत्वोक्तेस्तत्र तेषां सिद्धत्वात् । 'कार्पासे न हि सूत्रं तदेव पुनः पौर्वापर्यमापद्यमानं सूत्रतामापद्यत इति भगवाम्निर्गुणस्ते गुणा' इति तत्र विवरणात्तदेतदुक्तं भगवद्धर्मरूप एव कश्चन्नास्तीति । एतमेव रामानुजमते शुद्धसत्त्वं नाम रजस्तमोमिश्रप्राकृतसत्त्वविलक्षणसत्त्वगुणाश्रयो द्रव्यविशेष इत्याहुः 'स्वसत्ताभासकं द्रव्यं त्रिगुणाच्चद्विलक्षण'मिति प्रमाणं चाहुः । सिद्धान्ते तु प्राकृतानामिव तस्यापि द्रव्यत्वस्याविरुद्धत्वात्तत्रैव विश्राम्यत इति विशेषः । एवं प्रयोजकमुक्त्वा तेन सिद्धमंशस्वरूपमाहुः यादृशेनेत्यादि । अतो निरवयवत्वांशत्वबोधकप्रमाणयोर्न विरोध इत्यर्थः । अतः परं श्रेष्ठ्यबोधनाय मूलस्वरूपं विवृण्वन्ति यच्चाविद्येत्यादि । प्रादुर्भूतस्य पूर्णत्वे गमकमाहुः अत एवेत्यादि । तेनेति, जृम्भाव्यादान- दामोदरलीलासु व्यापकत्वं प्रदर्शयितुस्तथात्वेनेत्यर्थः । एवमिति, सत्त्वसाधिष्ठानत्वे । सर्वत्रेति, अवतारादौ । विभूतिस्वरूपमाहुः यत्रेत्यादि । तत्त्वमिति, विभूतिरूपत्वम् । तत्र तत्रेति, नानाविध- लौकिकशरीरेषु । एवं रूपत्रयविभागस्याप्रयोजकत्वं मन्यमानश्चोदयति नन्विति । न्यायसिद्धत्वा- द्विमूर्तिरूपं तथास्तु, अवताररूपमूलरूपे तु न तथा, वदतो व्याघातादित्यर्थः । समादधते मैवमिति । तत्रेति, खतोनन्तरूपत्वे प्रमाणं च । चादिपदेन 'क्षयन्तमस्य रजसः पराक' इत्यादीनां 1973