अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2099, कुल 2600 में से
संदर्भ में पढ़ें६ परिशिष्टम् ।
संग्रहः । एवं सत्त्वाधिष्ठानतदनधिष्ठानयोः स्थिरीकरणेन तथा प्राकट्यमपि स्थिरमेवेति रूपविभागोऽपि स्थिर इति साधयित्वा तादृक्प्राकट्यप्रयोजकं तत्प्रयोजनं चाहुः प्राकट्यं हीत्यादि । प्राकट्यमपि तथेति, अत्रापि बीजं 'ये यथा मां प्रपद्यन्त' इति प्रतिज्ञावाक्यं बोध्यम् । एतेनैवेति, प्राकट्य- प्रकारव्यवस्थापनेनैव । एवं विभागमुपपाद्य सिद्धमाहुः एतेनेत्याद्यध्यवसीयत इत्यन्तम् । मथुरा- द्वारकादिस्थानां प्रायशः सोपाधिकस्नेहवत्त्वात्तदर्थं प्राकट्यविनियोगे वैरूप्यापत्तिं हृदिकृत्योक्तमानुष- ङ्गिकत्वादिति । व्यूहविशेषं द्वारीकृत्य तत्करणेन तेषां तद्दानात्तथेत्यर्थः । एतदेव रूपमिति, सत्त्वाव्यवहितं श्रीकृष्णस्वरूपम् । इदमिति, अधिष्ठानाव्यवधानम् । तथेति, विषयः । तथा च यदि निर्विशेषं ब्रह्म स्यात्तदा तथा स्यादपि, तत्तु प्रागेव निरस्तम्, तथा सति विरुद्धध