अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2103, कुल 2600 में से
संदर्भ में पढ़ेंदेरप्रदर्शनाच्च तस्यैव परत्वं प्रतिपाद्यत इति सिद्धान्तयित्वा, आध्यानशब्द आध्यानपूर्वकसम्यग्दर्श- नार्थत्वेन विवृतः । तन्न । आध्यानपदे लक्षणापेक्षया विषयवाक्यान्तरोपन्यासस्यैव ज्यायस्त्वात् । अस्मिन्सूत्रे साध्यानिर्देशेन प्रियशिरस्त्वाधिकरणशेषत्वस्य स्फुटत्वात् । विषयवाक्येप्यर्थादौ परत्वप्र- तिपादनस्य तल्लिङ्गिताबोधनार्थत्वेन सप्रयोजनकत्वात् । अन्यथा तत्यागनिग्रहादनास्थाया'मिन्द्रि- येभ्यःपराह्यर्था'रिति स्मृत्युक्तप्रणाल्या तैः प्रबलानर्थप्रसङ्गात् । ज्ञाते तु तत्तन्नियामकतया तत्तत्परत्वे तत्यागनिग्रहादिभिः पुरुषनिष्ठपरत्वप्रतिपत्तिसौकर्यमिति तदर्थमिदं नानावाक्यघटितं महावाक्यं तत्तत्परत्वप्रतिपादनपूर्वकपुरुषपरत्वप्रतिपादनपरं तद्विरोधाच्चेति दिक् ॥ ४ ॥ एवं चतुःसूत्रेणानेनाधिकरणेनोपसंहारो व्यवस्थापितः । अतः परं तत्सङ्गेनानन्दमयाधिकरण- शेषमेव चिन्तयतीत्याशयेन सूत्रं पठित्वाधिकरणं रचयन्ति आत्मेत्यादि । तथा सतीति, एष इत्यनेन पूर्वस्याननमयस्यात्मा परामृश्यते, ह्यभिमानी च लोके जीवो दृश्यत इति जीवत्वे सतीत्यर्थः । ननु तस्मिन्र्प्रकरणे शारीर आत्मेतिवदन्तर आत्मेत्यप्यात्मग्रहणमस्तीति कथमस्यैव ग्रहणं विनिगम्यत इत्यतः पक्षान्तरमाहुः अथवेत्यादि । य इति, प्राणमयादिः । तथा च तथापि अन्तरात्मत्वमानन्द- मय एव समाप्यते, तेन निर्व्याज आत्मा स एवेति 'शारीर आत्मे'त्यत्रापि स एव परामृश्यत इति मास्तु विनिगमना, तथापि नोक्तार्थव्याहृतिरित्यर्थः । अग्रिमसूत्रार्थस्तु स्फुट एव ॥ ५ ॥ एतस्यैव दाढ्र्यायाग्रिमं पठतीत्याशयेन सूत्रं पठित्वाधिकरणमारचयन्ति कार्येति । पूर्वोक्त इति, अन्नजन्यः । पूर्वस्येत्यादि । अयमर्थः । अन्नमयश्लोके अन्नस्य ब्रह्मत्वेनोपासनाय यदि ब्रह्मधर्माः स्तुत्यर्थमुच्येरंस्तदा 'अन्नाद्वा' इत्यादिना पूर्वमुक्त्वा ततः 'सर्वं वै तेन्नमाप्नुवन्ति येन्नं ब्रह्मोपासत' इति सफलमुपासनमात्रं वदेन्न तु पुनरपि 'अन्न ५ हि भूतानां ज्येष्ठ'मित्यादिना भूतजनकत्ववर्द्धकत्वाभ्यां धर्माभ्यां भूतव्यतिरिक्तसाधकमतीतं सततं व्याप्नोतीत्यन्नमिति निर्वचनं सूचयेन्ना 'प्यद्यते च भूतानि तस्मादन्नं तदुच्यत' इति च निरुच्यात्, प्रयोजनाभावात्, उपासनायाः पूर्वस्तुल्यैव सिद्धेः । एवं सत्यपि यदेवं निर्वक्ति, तेन कार्यरूपान्नादेतं व्यवच्छिनत्ति, प्रपाठकान्तरेपि तस्मिन्ब्रह्मत्वविज्ञानं ब्रह्मात्मकतपोरूपसा- धनेन वक्ति, न तु यथाकथञ्चित् , तेनान्नस्य पूर्ववैलक्षण्यमवश्यं वक्तव्यम्, 'विश्वभृद्धैनामैषा तनुर्भगवतो विष्णोर्यदिदमन्न'मिति 'स वा एष पुरुषः पञ्चधा पञ्चात्मा येन सर्वमिदं प्रोतं पृथिवी चान्तरिक्षं चे'ति श्रुत्यन्तरे भगवत्तत्तुल्यव्यापकत्वादिश्रावणाच्च, एवं सिद्धे बैलक्षण्ये 'स वा एष पुरुषोन्नरसमय' इत्यत्र तदेतच्छब्दाभ्यां वक्ष्यमाणपरामर्श एव युक्तो न प्रकृतस्य निरुक्तलिङ्गाभ्यासादिविरोधात् । तदेतदुक्तम् । न वा तद्रूपेत्यादि । एवमेवेति । तपोरूपसाधनेत्यर्थः । तेन सिद्धमाहुः अत एवेत्यादि । कार्यपुरुषवैलक्षण्येनाध्यात्मिकत्वादेवेत्यर्थः । एवं पूर्वाधिकरणेनानेन वर्णकेन चानन्दमयविद्यायामा- त्मपदं परब्रह्मपरमित्यापाततो मायावादिनो निरासायान्नमयादिपुरुषास्तद्विभूतय इति तेषां विभूतिरूपे- णोपासनाय च तद्विद्याशेषो विचारितः । अस्मिन् पक्षे एकसूत्रमेवेदमधिकरणम् । अतःपरमुपासनबोधके श्रुत्यन्तरेप्यात्मशब्दः परब्रह्मपर एवेति बोधयितुं प्रकारान्तरेणैतद्व्याकुर्वन्ति अथवेत्यादि । बाज- सनेयिशाखायामिति, तस्यां बृहदारण्यके पुरुषविधब्राह्मणे । अन्यत्रेति, मैत्रेयीब्राह्मणे । अपूर्व- मिति, पुत्राद्यभिमानिदशायां वेद्यात्प्रतीचो भिन्नम् । तदेव विवृण्वन्ति पूर्वं स्थित्यादिना । ननु प्राणादिकथनात्प्रत्यगात्मातिरिक्त आत्मा कथं निश्चेय इत्यत आहुः लोके हीत्यादि । अत एवेति, जीवभिन्नत्वादेव । लिङ्गान्तरमाहुः अत एवेति । जीवभिन्नत्वेनेश्वरत्वादेव । एतेनेति, प्राणादिकार्यास्यानेनेश्वरो हि तथा स्यादिति तत्तद्रूपतास्यानेन चेत्यर्थः । अधिकरणप्रयोजनमाहुः तेनेत्यादि । उपसंहर्तव्या इति, अवतीर्णे स्वरूपेऽनुसन्धेया इत्यर्थः । अग्रिमसूत्रस्यैतच्छेषत्वं बोध-