अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2104, कुल 2600 में से
संदर्भ में पढ़ेंपरिशिष्टम्। ११ यितुमवतारयन्ति नन्वित्यादि। तथा च तरुकुसुमयोरिव स्वगतद्वैतमापततीति तत्परिहारायोत्तरं पठतीत्यर्थः। ननु भिन्नप्रकारकप्रतीतौ विद्यमानायां कथमभेदसिद्धिरियत आहुः अत्रेत्यादि । स इति, औपनिषदः पुरुषः । स चेति, व्यवहारश्च । न च तस्य व्यवहारस्याप्रामाणिकत्वं शक्यशङ्कम् । वरणकृतस्वतनुविवरणैकसाध्यत्वात् । पूर्वपादे 'प्रकाशवच्चावैयर्थ्या'दित्यादिसूत्रद्वये तदुपपादनात् । तदेतत् हृदिकृत्याहुः एवं सतीत्यादि । अत्र लौकिकयुक्तेः कौण्ठ्यमेव श्रुत्याशयगोचर इत्याशयेनाहुः एवंविध इत्यादि । सिद्धमाहुः एतेनेति, ईश्वरस्य तथात्वश्रावणेनेत्यर्थः । इमामेव श्रुतिं हृदि (कृत्य) प्रकारान्तरेण सूत्रं योजयन्ति एवं सत्याविरित्यादि । अस्यां श्रुतावुक्तसेश्वरत्वस्य साहजिकत्वेन तादृगाकारस्य सार्वदिकत्वे सति तथेत्यर्थः । अत्र च 'विश्वतश्चक्षु'रित्यादिश्रुतयोऽनुसन्धेयाः । पूर्वं चोभ्यर्थे उक्त इत्यस्मिन्पक्षेऽर्थान्तरमाहुः चकार इत्यादि । साक्षादाविर्भूत इति । सत्त्वाद्य- धिष्ठानमनपेक्ष्यस्वरूपेणाविर्भूत इत्यर्थः ॥ ६ ॥ एवमवतारोपासनादौ गुणोपसंहारं विचार्यावेशे तं विचारयतीत्याशयेनाग्रिमाधिकरणमवतार- यन्ति अथेत्यादि । श्वेताश्वतरोपनिषदि 'यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ, तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मन' इति गुरुभक्तेर्देवभक्तिवदतिदिष्टत्वान्, 'योन्तर्बहिश्चतनुभृनामशुभं विधु- न्वन्नाचार्य चैत्यवपुषा स्वगतिं व्यनक्ती'ति स्मृतावचार्यचैत्यस्य वपुष्ट्वकथनेन तत्र भगवदावेशस्योक्तत्वात् लोकोद्दिधीर्षया तत्राविशति, तथा गोपालतापनीये मधुरासमीपस्थवनस्थिता द्वादशमूर्तीरुक्त्वा 'ता हि ये यजन्ति ते मृत्युं तरन्ति मुक्तिं लभन्त' इत्यादिकफलमुक्त्वाऽग्रे 'मधुरामण्डले यस्तु जम्बूद्वीपे स्थितोऽपि वा, योर्चयेत्प्रतिमां मां च स मे प्रियतरो भुवि, तस्यामधिष्ठितः कृष्णरूपः पूज्यस्त्वया सदे'त्यादिभिः प्रतिमां लक्षीकृत्य स्वपूजनं सर्वेषामुक्तम्, प्रतिमायामधिष्ठानकथनेन स्वावेशश्वोक्तः । तदेतदुक्तं 'कार्यचि- कीर्षया जीवे स्वयमाविशतीति जीव इत्युपलक्षणम्' । विकल्पेनेति, मार्गभेदव्यवस्थितविकल्पेनेत्यर्थः । प्रतिमासङ्ग्रहार्थमाहुः तत्त्वेन व्यपदेशादिति । अत्रैवं ज्ञेयमिति, उपासनामार्गे व्यवस्थितस्य पक्षस्य बीजं वक्ष्यमाणप्रकाराभ्यां बोध्यमित्यर्थः । प्रकारद्वयेप्यभिसन्धिमात्रं नोपसंहारप्रयोजकं किन्त्वावेश इत्याहुः तत्रेत्यादि । न च गुरौ भक्तिरेवोक्ता न तूपासनेति तद्व्यवस्था न सङ्गतेति शङ्कयम् । तैत्तिरीये 'वेदमनूच्याचार्योन्तेवासिनमनुशास्ती'त्युपक्रम्य 'यान्यस्माक ५ सुचरितानि, तानि त्वयोपास्या- नी'ति गुरुसुचरितोपासनस्योक्तत्वात्, न चोपासनपदं कर्तव्यार्थकम् । 'यान्यनवद्यानि कर्माणि, तानि सेवितव्यानी'ति पूर्वमुक्तत्वात्तेनैव सिद्धेः। 'एवं गुरूपसनयांशितेने'त्येकादशस्कन्धे स्मरणाच्चेति दिक् । निषेधपक्षो भक्तिमार्गीय इति बोधयितुं द्वितीयसूत्रमवतारयन्ति यस्त्वित्यादि। भक्तिमार्गीय इति, प्रेमोत्कर्षार्थेत्यर्थः । नन्वेवं तस्य विस्मृतभगवत्कत्वे उपसंहारप्राप्तेरेवाभावान्निषेधार्थस्य नञो- सङ्गतिरित्यत आहुः भगवदवतारेत्यादि । तथा च प्रियशिरस्त्वसूत्रे या अप्राप्तिरुक्ता, तामत्रान्यधर्म- विषायिणीमनुवदतीति नासङ्गतिर्नञ इत्यर्थः । अयमेवाशय इत्यत्र गमकं वदन्त उत्तरसूत्रमवतारयन्ति अपि चेत्यादि ॥ तृतीयसूत्रमवतारयन्ति नन्वित्यादि । तत्सम्भारकस्येति, वीर्यसम्भारकत्वस्य। उपसंहारं करिष्यतीति, 'तं यथा यथोपासत' इति श्रुतौ स्वाभिसंहितरूपेणैवावनस्योक्तत्वात्तैहिकपारलौकिकार्थ- मुपसंहारं करिष्यतीत्यर्थः । तत्रैवोक्तमिति, भजनरसाखादने एतदपेक्षया विशेषादिति पूर्वसूत्र एवोक्तमित्यर्थः । अयमेव सूत्रकाराशय इत्यत्र गमकमाहुः विषयेत्यादि । तथा च विनाप्युपसंहारं तल्लौकिकालौकिकसम्पादनादलौकिकानुभावप्रदर्शनाच्च नोपसंहारप्रसङ्गेति पूर्ववदत्रापि भक्तस्वभावस्यै- 1979