भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2108, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2108

[परिशिष्टम् । १५]

देनैव फलवत्त्वमिति कथं बोध्यमित्यतस्तदाशयमाहुः अत्रेत्यादि । सृष्टिपूर्वकाल इत्यादि, कार्यमात्रं प्रति भगवदिच्छायाः कारणत्वेनेच्छायाश्च नित्यत्वेन तदैव तथेत्यर्थः । तत्रेत्यादि । विचारशरीरप्रविष्टो- न्वयनकारणाकाङ्क्षया उक्तरीत्या ज्ञानभक्तिवरणज्ञानाभाववरणादिबुद्धीनां शास्त्रे कथनेन मुक्तिसाधनान- नुगमे शास्त्रद्वारा मुमुक्षोः प्रवृत्तये हेतुरनुगमहेतुरवश्यं वाच्य इत्यर्थः । उभयोर्मर्यादापुष्ट्योः स्वरूपमुक्त्वा व्यवस्थामाहुः तथा हीत्यादि । सर्वं सुस्थमिति । उदितानुदितहोमवदधिकारिभेदाद्व्यवस्थित- मित्यर्थः । एतेनैव पूर्वं ज्ञानमार्गीयज्ञानवतः पश्चाद्भक्तिमार्गीयज्ञानवतो लयस्थानानिश्चयोपि परि- हृतो बोध्यः । क्रमेणाङ्गीकृतस्याक्षरे लयोत्तरं तत उद्धृत्य पुरुषोत्तमलयस्य शक्यवचनत्वात् । 'ते तु ब्रह्मह्रदं नीता मग्नाः कृष्णेन चोद्धृता' इत्य