भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2109, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2109

अग्रिमाधिकरणमपि भक्ततारतम्यबोधनद्वारा वरणश्रुतिविचारस्य प्रपञ्च इत्याशयेन सूत्रं पठन्ति उपपन्न इत्यादि । अत्र पूर्वाधिकरणसिद्धपुष्टिमक्त्युत्कर्षासहिष्णुमर्यादामक्तरूपपूर्वपक्षवादिमुखेन विषयवाक्यं संशयं च वदन्तः सूत्रं व्याकुर्वन्ति नन्वित्यादि । तत्र मुक्तेस्तदनपेक्षत्वस्य श्रौत(त्व)बो- धनायाह तदुक्तमिति । कुत्रेत्याकाङ्क्षायामाह अष्टादशार्णेत्यादि । भक्तिरहस्यभजनमिति । भक्तिशब्दाच्छान्दसः सोर्लुक् । रहस्यभजनमित्यस्यैव विवरणं तद्विहेत्यादि । अमुष्य वस्तुत एतदीयस्यात्मनो जीवस्नेहामुत्रोपाधिनैराश्येनैव ऐहिकसुखमुक्तिपर्यन्तामुष्मिकसुखविषयेप्साराहि- त्येनैव कल्पनं तदीयत्वसमर्थनं अन्तर्बहिःसेवया तद्द्रढीकरणमित्यर्थः । अयं पाठः शाखान्तरीयः । उक्तवाक्यद्वयस्य तात्पर्यं विचार्यत्वेनाह एतद्वय विचार्यत इति । कथमित्याकाङ्क्षायामाह