अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2111, कुल 2600 में से
संदर्भ में पढ़ेंविभागात्, विद्यान्तररूपस्य विद्यान्तररूपत्वे प्रमाणाभावान्निषेधरूपाणां गुणानामानन्दादिवत्स्व- रूपावगमोपायत्वाभावाच्चेति हेतुभिर्नान्यत्र प्राप्तिरिति पूर्वपक्षः । सिद्धान्तस्तु, यथायवम्, प्रपञ्चपर्युदासस्य, विशेषनिराकरणरूपस्य ब्रह्मबोधनप्रकारस्य, सामान्यात्, तस्य प्रतिपाद्यस्य ब्रह्मणः सर्वत्र भावादैक्यात्सर्वत्रावरोध इति भट्टभास्करशङ्करमते । ते'नानन्दादयः प्रधाने'त्यत्र विधिमुखो विचारोत्र तु निषेधमुख इति तस्यैवायं प्रपञ्चः । तेनैतदधिकरणं नात्यन्तावश्यकम् । रामानुजभाष्ये तु, सर्वेषूपासनेषु ब्रह्मणः समानत्वात्, अस्थूलत्वादीनां तत्प्रतीतौ भावात् अन्तर्भावात् । अयमर्थः । केवला- नन्दादेः प्रत्यगात्मनि विद्यमानत्वेन तेषामसाधारणाकारेण ब्रह्मोपस्थापकत्वाभावादसाधारणाकारनिश्चयार्थं हेयप्रत्यनीकतानामस्यावश्यकत्वेन चिदचिदात्मकप्रपञ्चवैलक्षण्यबोधनमावश्यकम् । तत्रास्थ