अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2116, कुल 2600 में से
संदर्भ में पढ़ेंनिराबाधत्वमित्यर्थः । अस्मिन् पक्षे विचारस्य स्मार्तत्वमेव पुरःस्फूर्तिमारोहतीत्यतः पक्षान्तरमाहुः यद्वेत्यादि । तस्यैवेति, परमात्मनो लभ्यत्वं वरणजन्यसर्वात्मभावसाध्यमेव, तेन सर्वात्मभावो वरणैक- लभ्यो न त्वितरसाधनसाध्य इत्यर्थः । एतेन सर्वात्मभावसाधनकत्वप्राप्तिबोधकं पूर्ववाक्यं वरणलभ्यत्व- बोधकश्श्रुत्यर्थनिर्णायकमिति न तस्य पक्षस्य स्मार्तविचारत्वमिति बोधितम् । ननु पूर्वोक्तवाक्ये भकुतो- भयसाधनतया शरणागतेः सर्वात्मभावपूर्वकस्वप्राप्तेरेवोपदेशः । अकुतोभयं च मुक्तिरेवाक्षरप्राप्तिरूपा, ‘अभयं वै जनक प्राप्तोऽसी’त्यादिश्रुत्या तथा निश्चयात् । एवं सति सर्वात्मभावस्य मुक्तिसाधनत्वमेव सिद्ध्यति, न पुरुषोत्तमप्राप्तिसाधनत्वम्, पुरुषोत्तमप्राप्तेः साधनकोटिप्रवेशेन तदपेक्षया मुक्तेरेवोत्कर्षश्च सिद्ध्यतीति पूर्वोक्तं सर्वं द्रविडमण्डूकन्यायमनुसरतीत्याशङ्कायामकुतोभयपदतात्पर्यमाहुः भगवदुक्ते- त्यादि । तथा चास्याः श्रुतेः ‘रसो वै स’ इत्यादिना रसरूपताप्रतिपादनोत्तरमानन्दमीमांसाया ब्रह्मान- न्दस्य गणितानन्दत्वसमर्पणोत्तरमुक्तत्वादस्या उक्त एवार्थो निर्णीयते, भगवद्वाक्ये ‘प्येतत्परमं गुह्यं शृण्वतो यदुनन्दन । सुगोप्यमपि वक्ष्यामि त्वं मे भृत्यः सुहृत्सखे’ति तादृशेतिगोप्यकथनं प्रतिज्ञाय ‘केवलेन हि भावेन गोप्यो गावः खगा मृगाः । येऽन्ये मूढधियो नागाः सिद्धा मामीयुरञ्जसे’ति भावेन बहूनां प्राप्तिमुक्त्वा, को भाव इत्याकाङ्क्षायां ‘रामेण सार्द्धं मधुरां प्रणीत’ इत्यादिश्लोकचतुष्टयेन विगाढभावात्मकं तत्स्वरूपं स्वरूपज्ञानाभावेऽपि तेन भावेनैव परब्रह्मरूपस्य प्राप्तिमुक्त्वा, ‘तस्मा’दि- त्यादिवाक्यद्वयेन सर्वात्मसाधनकस्वप्राप्त्यकुतोभयप्राप्ती उच्ये