अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2117, कुल 2600 में से
संदर्भ में पढ़ेंएतत्पूर्वोक्तं हे भगवन् अध्येमि स्मरामि । सोहं भगवो मन्त्रविदेवास्मि । शब्दार्थविदस्मि, परोक्ष- शब्दादनुभवमात्रं मेऽस्तीति स्वाधिकारमुक्तवान् । तर्हि किमवशिष्टमित्याकाङ्क्षायां 'नात्मवि'दित्यादि 'तारयती'त्यन्तमाह । तथा चाप्तवाक्यप्रामाण्याच्छोकेन लिङ्गेन स्वस्यानात्मवित्त्वमनुमाय तज्ज्ञानेन शोकं तर्तुमुपसन्नोऽस्मीति नारदाशयः । तदा शोकतारणाय नारदेन विज्ञापितः सनत्कुमारः 'यद्वै किं चाध्य- गीष्ठा नामैवैतन्नाम वा ऋग्वेद' इत्यादिना नारदोक्तानां सर्वेषां नामत्वबोधनपूर्वकं नाम्नो ब्रह्मत्वेनोपासन- मुपदिश्य, 'यावन्नाम्नो गतं तत्रास्य यथा कामचारो भवती'ति तत्फलं शोकतारणायैवमुक्तवान्, तदा नारदः केवलनामत्वेनोपासने उक्तफलाभावं ब्रह्मत्वेनोपासने उक्तं फलं तदपि यावन्नाम्नो गतमित्यनेन नामगति- परिच्छिन्नमिति विचार्य तेन शोकात्तरणं निष्