अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2118, कुल 2600 में से
संदर्भ में पढ़ेंAn accurate line-by-line Markdown transcription of the provided Sanskrit text:
अत्र भूम्नोऽमृतत्वकथनात्कालापरिच्छिन्नत्वं बोधितम् । तथा सत्युत्पत्तियोग्यस्थितिकस्य जिज्ञासोत्सतो नारदः पृच्छति 'स भगवः कस्मिन् प्रतिष्ठित' इति, तत्रोत्तरमाह 'स्वे महिम्नि यदि वा न महिम्नी'ति, अत्र पक्षद्वयकथनान्नारदस्य पुनः सन्देहो भविष्यतीत्याशङ्क्य निषेधवाक्यं व्याकरोति 'गो अश्वमिह महिमेत्याचक्षते हस्तिहिरण्यं दासभार्यं क्षेत्राण्यायतनानीति नाहमेवं ब्रवीमी'ति, गोभ्वादिरूपे महिम्नि न प्रतिष्ठित इत्येवमहं ब्रवीमीत्यर्थः । तर्हि स को वा महिमा यत्र प्रतिष्ठित इत्याकाङ्क्षायां 'अन्यो ह्यन्यस्मिन् प्रतिष्ठित इति ब्रवीमीति होवाचे'ति श्रुतिराह । गोभ्वादिभ्योऽन्यो यो महिमा स्वे भक्ते य उत्कर्षरूपो भावस्तस्मिन्प्रतिष्ठित इत्यर्थः । ( तेनेदं सर्वात्मभावरूपं भूमाख्यं सुखमत्यन्तैकान्तभक्त एवेति निश्चीयते