अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2119, कुल 2600 में से
संदर्भ में पढ़ेंHere is the complete, line-by-line transcription of the Sanskrit text from the image into Markdown in Unicode Devanagari:
३६ परिशिष्टम् । तकषायाय तमसस्पारं दर्शयति भगवान् सनत्कुमार' इति । सनत्कुमारस्य कृपालुतामाह 'तं स्कन्द इत्याचक्षत' इति । स वरदानेन शिवस्य पुत्रोपि जातस्तेन तथेत्यर्थः । अतःपरं परं सूत्रं व्याकर्तुमाहुः स चेत्यादि । स इति भगवान् प्राप्तपोषकः । स इति, सर्वात्मभावः । तथेति, फलानुग्रहप्रकारेण । तंवेति, वरणं चेत्यर्थः । नन्वात्मादेशे 'आत्मैवेदं सर्व' मिति सर्वस्यात्मत्वभानं भावितं तथा सति स्वात्मन्यपि तदभेदो भाव्यतएव, भाते च तस्मिन् पूर्वोक्तरूपः सर्वात्मभावस्तेन प्रतिबध्यते, न हि स्वात्मत्वेन ज्ञाते ब्रह्मणि विरहभावो वक्तुं शक्यो विरोधादिति हृदिकृत्याहुः ज्ञानमार्गीयेत्यादि । उपपादितमिति, फलदित्सया पूर्वमेव सत्त्वात्प्रतिबन्धकं भगवता न क्रियते एवेतीदमपि न क्रियत [