भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2167, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2167

प्रामाणिकं च मनुत इति तन्मतमनुवदन्निममप्यनूक्तवान् व्यासः। ब्रह्मविदां त्यागावश्यकत्वे गार्हस्थ्यमेतेषां न स्यादिति भावः। उक्तश्रुतिस्तु कर्मण्यशक्तानां तेषां त्यागमनुवदति। 'लोकैषणायाश्च व्युत्थाये'ति श्रुतेर्लोकसंग्रहार्थं तत्करण- मिति न वक्तुं शक्यम् ॥ ३ ॥ तच्छ्रुतेः ॥ ४ ॥ ब्रह्मविदः कर्माचारनिरूपकश्रुतेरित्यर्थः। सा च 'जनको ह वैदेहो बहुदक्षि- णेन यज्ञेनेज' इत्यादिरूपा। तथाच ज्ञानेनैवार्थसिद्धिर्यदि स्यात्, तदा तद्भूत आयाससाध्ये कर्मणि प्रवृत्तिर्न स्यादिति भावः ॥ ४ ॥ समन्वारम्भणात् ॥ ५ ॥ 'तं विद्याकर्मणी समन्वारभेते' इति श्रुतिः फलारम्भे विद्याकर्मणोः साहित्यं दर्शयतीति न स्वातन्त्र्यं विद्यायाम् ॥ ५ ॥ तद्वतो विधानात् ॥ ६ ॥ 'ब्रह्मिष्ठो ब्रह्मा दर्शपूर्णमासयोस्तं वृणीत' इति कल्पश्रुत्या ब्रह्मविदो ब्रह्म- त्वेन वरणं विधीयत इति ब्रह्मज्ञानस्यार्त्विज्याधिकारसम्पादकत्वात् कर्मशेषत्वमे- वेत्यर्थः ॥ ६ ॥ भाष्यप्रकाशः। आचारदर्शनात् ॥ ३ ॥ सूत्रचतुष्टयमवतारयन्ति ननु तमित्यादि। उत्तरं पठ- तीति। उक्ताशङ्कायां विद्यायाः पुरुषार्थत्वं वारयितुमग्रिमसूत्राणि वक्तीत्यर्थः। सूत्रं व्याकु- र्वन्तः प्रथमत आचारमेव कुतो वदतीत्यत आहुः ब्रह्मविदामित्यादि। प्रामाणिकं च मनुत इति। 'यदेव विद्यये'तिश्रुत्युपोद्वलकत्वेन तथा मनुते। तर्हि 'तमेव विदित्वे'त्यादिश्रुतेः का गतिरित्यत आह उक्तेत्यादि। ननु 'प्रव्राज'श्रुतेरशक्ताधिकारकत्ववत् कर्मकरणश्रुतेर्लोकसंग्र- हार्थत्वस्यापि शक्यवचनत्वाद्भेदं साधीय इत्यत आह लोकेत्यादि। तथाच, आचारदर्शनान्य- थानुपपत्त्या तथा कल्प्यत इत्यर्थः। अन्ये त्वाचारदर्शनसूत्रे 'जनको ह वा' इति श्रुतिम्, द्वितीये च 'यदेव विद्यये'त्युदाह- रन्ति। तच्चिन्त्यम्। द्वितीयसूत्रवैयर्थ्यापत्तेः ॥ ३ ॥ तच्छ्रुतेः ॥ ४ ॥ समन्वारम्भणात् ॥ ५ ॥ तद्वतो विधानात् ॥ ६ ॥ एतद्भाष्यं सुगमम् ॥ ६ ॥ रश्मिः। आचारदर्शनात् ॥ ३ ॥ अग्रिमेति। चत्वारि। यदेवेति। आचारसेति बोध्यम्। भाष्ये। तन्मतमिति। जैमिनिमतम्। व्यासः स्वमतमनुवदन् इमं जैमिन्याद्याचारमप्यनूक्तवान्। एतेषामिति। जैमिनिजनकमभृतीनाम्। द्वितीयेति। तदर्थस्याचारे निवेशादिति भावः ॥ ३ ॥ तच्छ्रुतेः। समन्वारम्भणात्। तद्वतो विधानात् ॥ ४ ॥ ५ ॥ ६ ॥ सुगममिति। जनको ह वा इति। मध्वित्थं याज्ञवल्क्यादिति बृहदारण्यके। फलारम्भ इति। तमिल्यनेन देहत्वावच्छिन्नोपादानम्। न स्वातन्त्र्यमिति। किन्तु कर्मसाहित्यम्। कल्पश्रुत्येति। अङ्गकल्पश्रुत्या। अन्या वा। एवं सुगमम् ॥ ६ ॥ १. तदाचारं च प्रामाणिकं मनुत इति, तदाचारं प्रामाणिकमिति च मनुत इति पाठौ।