अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2168, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ४२९ ननु 'यदहरेव विरजेत्, तदहरेव प्रव्रजेत्, गृहाद्वा प्रव्रजेद्वनाद्वा'त्यादिश्रु- तिभ्यो विहितत्वाविशेषात् कर्मतत्त्यागयोरैच्छिको विकल्पोऽङ्गीकार्यः, अतो न शेषिशेषभाव इत्यत उत्तरं पठति । नियमाच्च ॥ ७ ॥ 'आश्विनं धूम्रल्ललाममालभेत, यो दुर्ब्राह्मणः सोमं पिपासेत्', 'ऐन्द्राग्नं पुनरुत्सृष्टमालभेत, य आतृतीयात् पुरुषात् सोमं न पिबेत्, विच्छिन्नो वा एतस्य सोमपीथो यो ब्राह्मणः सन्नात्तृतीयात् पुरुषात् सोमं न पिबति, 'यावज्जीवमग्नि- होत्रं जुहुया'दित्यादिश्रुतिभ्यो यथा कर्मकरणे नियमः श्रूयते, न तथा तत्त्याग इति नोक्तपक्षः साधुरित्यर्थः । चकारात् 'नियतस्य तु संन्यासः कर्मणो नोपप- द्यते । मोहात् तस्य परित्यागस्तामसः परिकीर्तित' इत्यादिरूपा स्मृतिः समुच्ची- यते । त्यागविधिरशक्तविषय इत्युक्तमिति प्राप्ते ॥ ७ ॥ प्रतिब्रूते । अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् ॥ ८ ॥ तुशब्दः पूर्वपक्षं व्यवच्छिनत्ति । यदुक्तं 'शेषत्वात् पुरुषार्थवाद' इति, भाष्यप्रकाशः। नियमाच्च ॥ ७ ॥ सूत्रमवतारयन्ति नन्वित्यादि । व्याकुर्वन्ति आश्विनमित्यादि । अत्र 'दुर्ब्राह्मण' इति 'विच्छिन्न' इति पदाभ्यामकरणे निन्दा बोध्यते, तेन च नियमेन नित्यत्वं कर्मणो व्यक्तीभवति, तथाग्रे यावज्जीवाधिकारेण । सूत्रपञ्चकोक्तं निगमयन्ति त्यागेत्यादि । इति प्राप्ते इति । एवंप्रकारेण ब्रह्मणस्तद्विद्यायाः कैमुतिकेन जीवविद्यायाश्च कर्मशेषत्वे प्राप्ते । अन्ये तु 'तच्छ्रुते'रित्यत्र विद्यायाः कर्मशेषत्वाय 'यदेव विद्यये'ति श्रुतिमुदाहरन्ति, 'तद्वतो विधाना'दित्यत्र 'आचार्यकुलाद्वेदमधीत्ये'ति छान्दोग्यसमाप्तिश्रुत्या वेदार्थज्ञानवतः कर्माधिकारं व्याकुर्वन्ति, 'नियमा'दित्यत्र 'कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः । एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे' इतीशावास्यश्रुतिं जरामर्यसत्रश्रुतिं चोदाहरन्ति । तन्मते विद्यायाः कर्मशेषत्वमिति पूर्वपक्षः ॥ ७ ॥ अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् ॥ ८ ॥ परिहारं व्याकुर्वन्ति तुशब्द इत्यादि । पूर्वपक्षमिति । ईश्वर इज्यत्वात् कर्मशेष इति पक्षम् । कर्मसाम्यमिति । रश्मिः । नियमाच्च ॥ ७ ॥ आश्विनमित्यादीति । इन्द्राग्नी देवतेस्य । सास्य देवतेत्यण् । सोमस्य पीथः पानं सोमपीथः । सोमस्य पीथः पानं यस्य मूर्द्ध्नः स सोमपीथो मूर्धा । कैमुतिकेनेति । ब्रह्मणस्त- द्विद्यायाः कर्मशेषत्वे, किं वाच्यं जीवविद्यायाः कर्मशेषत्व इति न्यायप्राप्तम् । एवमिति । एवं त्वयि न, अन्यथा इतः अस्ति । न, कर्म, लिप्यते नरे इति छेदः । लिप उपदेहे । तु-उ-अनिद् मुचादित्वात् मुञ्च् । लिम्पति । लिप्यत इति कर्मकर्तरिप्रयोगः । विद्याया इति । न ब्रह्मणः ॥ ७ ॥ अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् ॥ ८ ॥ कर्मणो ब्रह्मसाम्यमिति । ननु सामर्थ्याभावात् कथं कर्मसाम्ययोः समास इति चेत्, न । साम्यपदस्य ब्रह्मसाम्ये लाक्षणिकत्वात् । 2039