अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2172, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ४४३ तुल्यं दर्शनम् ॥ ९ ॥ यदुक्तं 'आचारदर्शनात् कर्मशेषत्वं ब्रह्मण' इति, तदपि न साधीयः । तुल्यं यतो दर्शनम्। ब्रह्मविदां शुकतृतीयजन्मवदार्षभादीनां त्यागदर्शनात् । एतेन यद्विदां कर्मत्यागः, तस्य कर्मशेषत्वं कथं शङ्कितुमपि शक्यमिति भावः सूच्यते । एतेन 'कर्मण्यशक्तान्प्रति त्यागविधि'रिति निरस्तम् । शुकादीनामतथात्वात् ॥९॥ ननु 'जनको ह वैदेह' इति श्रुतिसाहाय्यादाचारदर्शनं त्यागदर्शनादधिक- बलमित्यत उत्तरं पठति । असार्वत्रिकी ॥ १० ॥ ब्रह्मविदां सर्वेषामेतदाचारं चेन्निरूपयेच्छ्रुतिः, तदा त्वदुक्तं स्यात्, न त्वेवम् । यत एतादृशी श्रुतिर्ब्रह्मवित्सु सर्वेषु न श्रूयते । तथाहि । 'एतद्ध स्म वै तद्विद्वांस आहुःऋषयः कावषेयाः । किमर्था वयमध्येष्यामहे किमर्था वयं यक्ष्या- महे । एतद्ध स्म वै तत्पूर्वे विद्वांसोऽग्निहोत्रं न जुहवाञ्चक्रिरे, एतं वै तमात्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति' 'एतावदरे खल्वमृतत्वमिति होक्त्वा याज्ञवल्क्यः प्रवव्राजे'त्यादिश्रुतयो बहुध- स्तद्विदां कर्मत्यागमेवानुवदन्ति, अतस्त्यागपक्ष एव बलवान् ॥ १० ॥ भाष्यप्रकाशः। एवं ब्रह्मणः कर्मशेषत्वं निराकृत्य विद्यायाः कर्मशेषत्वं वारयतीत्याशयेनाहुः । तुल्यं दर्शनम् ॥ ९ ॥ भाष्यमत्र प्रकटार्थम् । तथाच य आचारदर्शनमिति हेतुर्वि- द्यायाः कर्माङ्गत्व उक्तः, सोपि साधारणत्वाद्धेत्वाभास इति बोध्यते, ब्रह्मणः कर्माङ्गत्वं च कैमु- तिकाभिरस्तं, जैमिनीयाकृता त्यागव्यवस्था च निरस्त इति तत्र बोधितम् ॥ ९ ॥ असार्वत्रिकी ॥ १० ॥ सूत्रमवतारयन्ति नन्वित्यादि । सदाचारस्य तुल्यत्वेपि केव- लस्य