भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2173, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2173

४५४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ४ अ० १ सू० १२. ननु ब्रह्मवित्त्वाविशेषेऽप्येकेषां कर्मकृतिः, एकेषां तत्याग इति विभागः कुत इत्याशङ्क्य तत्र हेतुमाह । विभागः शतवत् ॥ ११ ॥ 'एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ती'ति श्रुतेर्मानुषानन्द- मारभ्य ब्रह्मानन्दपर्यन्तं ये गणिता आनन्दास्ते सर्वे पुरुषोत्तमानन्दात्मका एव । एवं सति येषु यावान्मानन्दो दत्तोऽस्ति, तावन्तं तं निरूपयन्त्यधिकारतारतम्येन तद्दानमिति ज्ञापनाय शतोत्तरं शतोत्तरमानन्दं श्रुतिर्निरूपयत् । अत एव पुरुषायुःसंख्यासमानसंस्ययैवोत्कर्ष उक्तः, तेन पुरुषधर्मस्याधिकारस्यैवोत्कर्षः सूच्यते । एवं प्रकृतेऽप्यन्यभावराहित्यतारतम्येन भगवद्भावतारतम्यम्, अत्र त्वनुग्रह एवाधिकाररूप इति तदुत्कर्षे त्यागः, तदनुत्कर्षे नेत्यर्थः ॥ ११ ॥ यच्चोक्तं 'तद्वतो विधाना'दिति, तन्नाह । अध्ययनमात्रवतः ॥ १२ ॥ यदुक्तं 'ब्रह्मिष्ठो ब्रह्मे'त्यादि, तत्र ब्रह्मशब्देन वेद एवोच्यते, न तु परः, तथाच तं ब्रह्मत्वनाविकृतशब्दरूपत्वं ज्ञात्वा सततं तदध्ययनमात्रं यः करोति, न तु तेन किञ्चित् कामयंते, तस्याधिकारो ब्रह्मत्वार्त्विज्य इत्युच्यत इति न ब्रह्म- भाष्यप्रकाशः। विभागः शतवत् ॥ ११ ॥ सूत्रमवतारयन्ति नन्वित्यादि । यदि बहुप्रमाणप्रमितत्वात् कर्मत्यागपक्ष एव ज्यायान्, तदोक्तरूपो विभागः किंहेतुक इति वक्तव्यम्, तदवचने तु ब्रह्म- वित्स्वपि ये कर्मण्यधिकारशून्याः, तेषामेव कर्मत्यक्तृत्वं सेत्स्यतीति न विद्याया वेद्यस्य वा आधि- क्यसिद्धिरित्याशङ्कायां कर्मत्यागात्यागविभागे हेतुमाहेत्यर्थः । एतस्येत्यादि । निरूपयन्तीति सुब्विभक्तिर्बोध्या । अत एवेति । अधिकाराभिप्रायदेव । प्रकृत इति । कर्मत्यागात्यागवि- भागे ब्रह्मविदाचारविभागे वा । अत्र त्विति । भगवद्भावतारतम्ये तु । तथाच कर्मत्यागात्याग- विभागे एवमुत्कर्षस्तदभावश्च बीजम्, न तु त्वदुक्तमित्यर्थः । अन्ये तु इदं सूत्रं समन्वारम्भणसूत्रोत्तरत्वेनाङ्गीकृत्यैवं व्याकुर्वन्ति । यथा 'शतमाभ्यां दीयता'मित्युक्तेऽर्धमेकस्मै, अर्धमन्यस्मै दीयते, तथा विद्यान्यमारभते, कर्मान्यमिति विभागो द्रष्टव्य इति । तच्चिन्त्यम् । तत्र उपसंहारे 'इति तु कामयमान' इति कथनात् कर्माङ्गभूतविद्याया एव विवक्षितत्वावगमेन समन्वारम्भणस्य हेतुत्वाशङ्काया भ्रान्तिकूलत्वेन तदुपेक्षाया एव युक्तत्वादिति ॥ ११ ॥ अध्ययनमात्रवतः ॥ १२ ॥ सूत्रमवतारयन्ति यच्चेत्यादि । व्याकुर्वन्ति यदुक्तमि- रश्मिः। विभागः शतवत् ॥ ११ ॥ उक्तरूप इति । कर्मत्यागात्यागरूपः । सुब्विभक्तिरिति । प्रत्ययग्रहणे तदन्तग्रहणमिति तदन्तं पदं ग्राह्यम् । सुबन्तं बोध्यमित्यर्थः । भाष्ये । पुरुषायुरिति । 'शतायुर्वे पुरुष' इति तथा । प्रकृते । त्वदुक्तमिति । कर्माशक्तिरूपम् । एवेति । शरीरारम्भकविद्याव्यव- च्छेदकः । हेतुत्वेति । विद्याकर्मसाहित्ये हेतुत्वाशङ्कायाः । तदुत्कर्षेति । सूत्रप्रत्याख्यानस्य ॥ ११ ॥ अध्ययनमात्रवतः ॥ १२ ॥ यदुक्तमित्यादीति । ब्रह्मत्वार्त्विज्य इति । ब्रह्मत्वाया- 2044