अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2175, कुल 2600 में से
संदर्भ में पढ़ें४४६ | श्रीमद्ब्रह्मसूत्राणुभाष्यम् । | [ अ० ३ पा० ४ अ० १ सू० १२.
विज्ञानसुनिश्चितार्था इति पठ्यते । विज्ञानमनुभव एव, न तु ज्ञानमात्रम्, अतो दूरापास्तं कर्मशेषत्वं ब्रह्मणः । 'तं विद्याकर्मणी' इत्यादितु संसारात्मनः पूर्वदे- हत्यागसामयिकं वृत्तान्तं निरूपयति, न तु ब्रह्मविद इति 'समन्वारम्भणा'दिति सूत्रमुपेक्षितमाचार्येण ॥ १२ ॥ यच्चोक्तं 'नियमाच्चे'ति, तत्राह । नाविशेषात् ॥ १३ ॥ 'आश्विन'मित्यादिश्रुतिभ्यः कर्मकृतौ यथा नियमः श्रूयते, न तथा त्याग इति यदुक्तम्, तन्न । कुतः । अविशेषात् । 'न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशु'रिति श्रुतिः कर्मादिना अमृतत्वाप्राप्तिमुक्त्वा तत्त्यागेन तां वदन्ती कर्मत्यागस्यावश्यकत्वं वदतीति तन्नात्र विशेषो यत इत्यर्थः । तथाच '