भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2176, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2176

अथवा । ननु क्रमप्राप्ते तुरीयाश्रमे हि कर्मत्यागः, द्वितीये तस्मिन् कर्मकरण- नियमः, तत्र च कर्तुरङ्गत्वेन तत्स्वरूपज्ञानमावश्यकम्, तच्च वेदान्तैरेवेति कथं न

भाष्यप्रकाशः। म्यते, तथा त्यागश्रुतावपि कर्मादिभिर्मोक्षाप्राप्तिकथनपूर्वकं त्यागेन तत्राप्युक्त्या तदावश्य- कतया त्यागस्यापि नियमोऽवगम्यत इति तथेत्यर्थः । तेन सिद्धमाहुः तथाचेत्यादि । एवं ब्रह्मज्ञानस्य कर्माङ्गत्वस्याभावेऽपि जीवस्वरूपज्ञानस्य कर्माङ्गत्वं न वारयितुं शक्यमित्याश- ङ्काप्यनेनैव निरस्ता भवतीत्याशयेन पक्षान्तरमाहुः अथवेत्यादि । तत्र चेति । कर्मणि च । अविशे- षपदस्य व्याख्यानं 'आश्रमविशेषे विशेषाभावा'दिति । अयमर्थः । भाट्टा हि अध्ययनविधिगृहीतानां वेदान्तानां वेदशेषत्वाद्वैयर्थ्यं वर्णयन्ति । तथाहि । यत्तावत् 'अविनाशी वा अरे अयमात्मे'त्यादिना