अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2177, कुल 2600 में से
संदर्भ में पढ़ेंवक्ष्यमाणार्थस्यातिगहनत्वान्मनोपयोगित्वाच्चालसं निवार्य श्रद्धाविशेषेण कृत्वा वक्ष्यमाणार्थप्र- तिपत्तिमात्रार्थम् । तस्मादेतज्ज्ञानं दृष्टोपयोगित्वात् क्रत्वर्थम् । यानि पुनरितिकर्तव्यताविशेषे उपासनात्मकानि ज्ञानानि विधीयन्ते, तेषां क्रतौ दृष्टोपयोगाभावाददृष्टफलत्वम् । अदृष्टं च फलं वाक्यशेषाद् द्विविधम्, अभ्युदयरूपं निःश्रेयरूपं च । 'सर्वाश्च कामानाप्नोति' 'सोऽश्नुते सर्वान् कामा'नित्याद्युक्तमभ्युदयफलम् । 'न स पुनरावर्तत' इत्याद्युक्तं निःश्रेयसफलमिति विवेकः । यत्तु 'विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति, न प्रेत्य संज्ञास्ती'ति ब्राह्मणेन भूतचैतन्यमुक्तमित्याशङ्कते । तन्न । स्वयमेव ब्राह्मणेन अत्रैव 'मा भगवान्म्मूमुहं न प्रेत्य संज्ञास्ती'त्यनेन पूर्वोक्ताजरामृतत्वस्य विनाशित्वाभिधानतो बाधात् पूर्वपक्षं चोद्याख्यमु