भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2181, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2181

अथ प्रह्वितया 'ब्रह्मिष्ठ' इत्यत्र ब्रह्मपदेन पर एवोच्यत इति वदसि, तत्रापि वदामः । स्तुतयेऽनुमतिर्वा ॥ १४ ॥ दर्शपूर्णमासावेतादृशौ यत्र ब्रह्मविदार्त्विज्येऽधिकारीति तत्स्तुत्यर्थं 'ब्रह्मिष्ठो ब्रह्मे'त्यनेन ब्रह्मविदोऽप्यार्त्विज्येऽनुमितिः क्रियते, न तु तस्याधिकारत्वमभिप्रे- तम् । उक्तानुपपत्तिभिरित्यर्थः ॥ १४ ॥ भाष्यप्रकाशः । स्तुतयेऽनुमतिर्वा ॥ १४ ॥ एवं षड्भिः सूत्रैर्जैमिनीयोक्तं निराकृत्य पुनरुत्सूत्रं किञ्चि- दाशङ्क्य निराकरोतीत्याशयेन सूत्रमवतारयन्ति अथेत्यादि । व्याकुर्वन्ति दर्शोत्यादि । तस्येति । ब्रह्मज्ञानस्य । तथाचोक्तवाक्ये ब्रह्मिष्ठपदमतिशयेन ब्रह्मवानित्यर्थकम् । अतिशयश्च भक्त्या साक्षा- त्कारेण वेति 'यो यच्छ्रद्धः स एव सः' 'ज्ञानी त्वात्मैव मे

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 2181, कुल 2600 में से · BharatKosha