अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2194, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ४६५ नुकूलप्रयत्नविधानसम्भवात्, श्रवणविधिना श्रुतिवाक्यजशाब्दज्ञानानुकूलप्रय- त्नविधानवत् । एवमेव हि यागविधिनापि क्रियारूपयागस्य स्वानुकूलप्रयत्नाधीन- त्वेन स प्रयत्न एव विधीयते । अन्याप्राप्तत्वात् । न तु क्रिया । तत्प्रयत्ने सति तस्याः स्वत एव सम्भवात् । अथवा । ननु यथा 'वीरहे'ति श्रुत्या कर्मत्यागो निन्द्यते, तथैव 'असुर्या नाम ते लोका अन्धेन तमसा वृताः । तांस्ते प्रेत्यापि गच्छन्त्यविद्वांसोऽबुधा जनाः । ये तद्विदुरमृतास्ते भवन्त्यथेतरे दुःखमेवोपयन्ती'त्यादिश्रुत्या भगवज्ज्ञा- नाभावो निन्द्यते । एवं सति कर्मज्ञानानुकूलप्रयत्नयोर्विधेयत्वे मिथो विरोधाद- धिकारिभेदेन विधेयत्वं वाच्यम् । न च 'तावत् कर्माणि कुर्वीत न निर्विद्येत याव- ते'ति भगवद्वाक्याद्रागिणः कर्म विधीयते, तद्रहितस्य ज्ञानमिति वाच्यम् । 'जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेज' इति श्रुतेर्नीरागत्वेन प्रसिद्धस्यापि तस्य कर्मणि प्रवृत्तिर्या, सा न स्यात्, अधिकाराभावात् । अथ जनकदृष्टान्तेन कर्म- णोऽङ्गत्वं ज्ञानस्य तदङ्गत्वं वाच्यम् । तथा च ज्ञानवता कर्मानुष्ठेयमिति प्राप्तं प्रतिवदति । अनुष्ठेयं बादरायणः साम्यश्रुतेः ॥ ज्ञानमङ्गं तदङ्गत्वेनानुष्ठेयं कर्मेति मतं बादरायणोऽपवदतीति पूर्वेण सम्बन्धः । तत्र हेतुमाह साम्यश्रुते- भाष्यप्रकाशः । कर्मण एव विधेयतेति तस्य फलवत्त्वमुचितम्, इह तु ज्ञानानुकूलप्रयत्नस्येति ज्ञानस्याविधेयत्वं दुर्वारमित