अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2193, कुल 2600 में से
संदर्भ में पढ़ें४६४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ४ अ० १ सू० १९.
षात् । तेन 'नापुत्रस्य लोकोऽस्ती'ति श्रुतिरप्यविद्वद्विषयिणीति न विरोधः । 'विद्वांसः प्रजां न कामयन्त' इति श्रुतेः । एतेनर्णत्रयापाकरणमपि प्रत्युक्तं वेदि- तव्यम् । अविद्वद्विषयत्वात् । यदप्युक्तं 'अचोदना चे'ति सूत्रावयवेन 'चोदनाबो- धकलिङद्यभावो बाधक' इति । तदपि न साधीयः । श्रुतिसाम्यादेव । श्रूयते हि 'तस्मादेवंविच्छान्तो दान्त उपरतस्तितिक्षुः श्रद्धावित्तो भूत्वात्मन्येवात्मानं पश्ये'- दिति । नच प्रमाणवस्तुपरतन्त्रत्वान्न ज्ञानस्य विधेयतेति वाच्यम् । इतरज्ञानस्य तथात्वेपि जीवात्मलक्षणेऽधिष्ठाने परमात्मनो भगवतो दर्शनस्यान्यतोऽप्राप्तत्या- च्छुद्धान्तसाधनैस्तद्दर्शने स्वरूपयोग्यतासम्पत्तावात्मन्यधिष्ठाने परमात्मदर्शना-
भाष्यप्रकाशः। 'विरजे'दित्यधिकारबोधकं पदं न भवेत्, तदा तथा कल्पयितुं शक्येतापि, न तु तत्सद्भाव इति तदप्रयोजकमित्यर्थः । श्रुत्यन्तरविरोधपरिहारायाहुः तेनेत्यादि । एतेनेति । 'विद्वांस' इति कथनेन । ननु साम्यश्रुतिरूपेण हेतुना भवत्कृतदोषपरिहारः, तथापि ज्ञानस्य प्रमाणवस्तुपरतन्त्रत्वेन चोदनाविषयत्वाभावाच्चोदनाकृतापवादस्य कथं परिहार इत्यत आहुः यदपीत्यादि । तथाच चोदनाश्रुतिसाम्यात् तस्यापि परिहार इत्यर्थः । अत्र 'पश्ये'दित्यस्य प्रमाणान्तरजन्यदर्शनानु- वादत्वमाशङ्क्य निषेधन्ति नचेत्यादि । तथाचात्र 'एवंवि'दित्यादिभिर्निर्विकित्सशाब्दज्ञानवत्त्व- शमदमवैराग्यदुःखसहिष्णुत्वश्रद्धावित्त्वपूर्वकं जीवात्माधिकरणकपरमात्मदर्शनप्रयत्नस्य प्रमाणा- न्तरेणाप्राप्तत्वात् तद्विधानस्य सुखेन सम्भवान्नानुवादत्वमित्यर्थः । ननु तथापि कर्मचोदनासु
रश्मिः। सर्वसामञ्जस्यम् । भाष्यीयविकल्पेन सह सिद्धान्तप्रघट्टकार्थमाहुः तथा च यदीति । विरजेदिति । इदं कामवतो भिन्नस्य वैराग्यवतोऽधिकारबोधकम् । तथेति । तदतिरिक्तो यावज्जीवमग्निहोत्रविधायक- प्रव्रजनविधायकवाक्ययोर्विरोधाभावायान्धपंग्वादिभिः प्रव्रजनं कार्यमिति भिन्नविषय इत्यर्थः । तत्सद्भाव इति । विरजेदिति । वाक्ययोर्विरोधाभावसाधकपदसद्भावे । तस्य विरजेदिति पदस्य । अतिरिक्तं अन्धपंग्वादिभिः प्रव्रजनं कार्यमिति यत्तदप्रयोजकम् । तेन भाष्ये तेनैवेत्यस्य वैराग्येनैव । विषयभेदेत्यादेर्गृहस्थतुरीयाश्रमभेदसिद्धौ अयं विषयो भिन्नः कल्प्यते इत्यस्य कथनानवकाशादि- त्यर्थः । श्रुत्यन्तरेति । 'नापुत्रस्य लोकोऽस्ती'त्यस्याः विरोधपरिहाराय । तेनेत्यादीति । अविद्व- दिति । तेन संन्यासे पुत्राभावेपि लोकस्याक्षरात्मकस्य सिद्धिः विद्वदधिकारात् । भाष्ये । ऋण- त्रयेति । देवर्णपितृर्णमनुष्यर्णैः । 'ऋणत्रयमपाकृत्य मनो मोक्षे निवेशये'दिति तुरीयेर्णत्रयापाकरणा- भावान्मोक्षानधिकारसम्पादकर्णत्रयापाकरणम् । उक्तदोषेति । 'वीरहा वा एष' इति श्रुत्युक्ताभ्यु- द्वासनकृतनिन्दादोषपरिहारः । प्रमाणान्तरेति । प्रमाणं 'तस्मादेवंवित्', तदन्यत् 'आत्मा वा अरे द्रष्टव्यः श्रोतव्य' इति प्रमाणान्तरम्, तजन्यदर्शनानुवादत्वम् । तथा चेति । भाष्ये । भग- वतो दर्शनस्येत्यस्यान्तर्यामिब्राह्मणोक्तदर्शनमात्रम्, न तूपासनम्, जीवे तन्निषेधात् । एवं तस्य दर्श- नस्य विधिविषयत्वेनान्यतोऽप्राप्तत्वात् । 'आत्मा वा अरे द्रष्टव्य' इत्यत्रावश्यकार्थयेष्वपि तव्यस्य सम्भवात् शुद्धान्तसाधनैस्तद्दर्शने आत्मोपासनात्मक स्वरूपयोग्यतासम्पत्तौ दर्शनसाधनं तु भक्तिरेव ।
2064