अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2192, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ४६३ हृकत्वात्तच्छेषत्वेन तेषां विधानम् । एवं सति 'वीरहे'ति श्रुतिः साग्निकस्य गृहिण आलस्यादिदोषेण तदुद्वासने दोषमाह, न त्वाश्रमन्तरपरिग्रह इति मन्तव्यम् । अन्यथा तदुच्छेदस्तद्विधिवैयर्थ्यं च स्यात् । नचानधिकृतमादाय तत्समाहिति- रिति वाच्यम् । अत्र पृच्छामः । अन्धपङ्ग्वादिभिः प्रव्रजनं कार्यमिति विधिरस्ति, आहोस्वित् यावज्जीवमग्निहोत्रविधायकप्रव्रजनविधायकवाक्ययोर्विरोधाभावाय विषयो भिन्नः कल्प्यते । नाद्यः । अश्रुतेः । न द्वितीयः । 'यदहरेव विरजे'- दिति श्रुत्या वैराग्यवतः प्रव्रजनविधानात्तेनैव विषयभेदसिद्धौ तत्कल्पनानवका- भाष्यप्रकाशः। च्छूद्रमिक्षिता'दित्यादिनिन्दावाक्यानि न स्युः । अतस्तादृशद्रव्याद्यर्थं चित्रादियागानां नित्य- शेषतया विधानम् । एवमेकफलकेषु नानायागेष्वपि कश्चिदभिप्रायोऽस्तीत्यवगन्तव्यम् । अन्यथा तद्वैयर्थ्यापत्तेः । एवमतिविमुखस्य सन्मार्गश्रद्धाजननार्थं दृष्टफलाः कारीर्यादयो विधीयन्ते । इदमप्यक्षमूत्रणादिनिदर्शनावगम्यते । एवं सति काम्यैस्तत्तद्यागैः समीचीनावृष्ट उत्पन्ने तन्नि- ष्पन्नैरुपकरणैर्यदा साङ्गनित्यकर्मसिद्धिः, तदा ज्ञानं भवति । तेन चात्मसुखम् । लोकस्त्वङ्गवा- क्येषु फलतयोच्यते । यदि प्राचीनदुरदृष्टवशात् यदुलोककामना भवति, तदा साङ्गात् कर्मण- स्तद्भवतीति । अतो न तत्र तात्पर्यम्, किन्तु वाक्यशेषोक्त एवेति कर्मणां ज्ञान एव तात्पर्य- मित्यर्थः । ननु यदि ज्ञानमेव मुख्यम्, तदा त्यागावश्यकत्वे 'वीरहे'त्यादिनिन्दावाक्यविरोधो दुर्वार इत्यत आहुः एवं सतीत्यादि । ननु निन्दावचनद्वयाञ्जस्यार्थमधिकारिभेदकल्पनमाव- श्यकम्, तत्र 'वीरहे'त्यादिविषयसङ्कोचापेक्षया 'असूर्ये'त्यादिविषयसङ्कोच एव युक्तः, 'आज्य- मवेक्षते, विष्णुकमान् क्रामती'त्यादिखारखात् । तत्रानधिकारे तु कर्मानधिकारात्तत्र त्यागादि- विधिसार्थक्ये सर्वसामञ्जस्यादित्याशङ्क्य विकल्पपूर्वकं तत् परिहरन्ति नचानधिकृतेत्यादि । तत्समाहितिरिति । संन्यासोच्छेदतद्विधिवैय्यर्थ्योः समाधानम् । तथाच यदि प्रव्राजवाक्ये रश्मिः। इति । तथात्वं ज्ञानसाधनत्वम् । शुद्धैर्वेदैस्तैः संस्कृतैः द्रव्यादिभिरित्यत्रादिना तपयोगज्ञानानि गीतोक्तानि । शूद्रेति । शूद्रभिक्षितात् द्रव्यात् यज्ञकरणं तस्मात् । चण्डालो जन्मान्तरे जायते, फलसोत्तरजन्मनिन्वात् । तद्भवतीति । स्वर्गलोकरूपं फलं भवतीति । तत्रेति । लोके। तात्पर्यशब्दाद- मिघास्ति । वाक्यशेषेति तात्पर्यमित्यनुषज्यते । कर्मणामित्यादि । 'तमेतं' मिति श्रुतेरित्यर्थः । मुख्य- मिति । फलजनने स्वतन्त्रम्, न तु कर्म । वीरेति । गार्हस्थ्यबोधकमिदम् । परामर्शसूत्र उक्तम् । एवं सतीत्यादीति । तदुद्वासन इति । अभ्युद्वासने । आश्रमेति । आश्रमो गृहस्थाश्रमः। तदन्यश्चतुर्था- श्रमः तस्य परिग्रहे । अन्यथेति । आश्रमान्तरपरिग्रहे श्रुतेर्दोषबोधकत्वे । संन्यासोच्छेदः संन्यासविधेः 'यदहरेव विरजेत्, तदहरेव प्रव्रजे'दित्यस्य वैय्यर्थं चेत्यर्थः । निन्देति । अश्वनद्वयेति । तत्तु 'वीरहे'ति 'असुर्या नाम ते लोका' इति च। वीरहेत्यादीति । अस्य विषयसङ्कोचः साग्निकस्य गृहिण आल- स्यादिदोषेणाभ्युद्वासने दोषमाह श्रुतिः, न त्वाश्रामन्तरपरिग्रह इति । तस्यापेक्षया । 'असुर्ये'त्यादि- विषयसङ्कोचमेवाहुः आज्यमवेति । इत्यादीति । 'यस्य पर्णमयी जुहूर्भवति, न स पापं लोकं शृणोती'त्यादिपदार्थः । तैस्तस्त्यागादीति । अवेक्षणादित्यागः, आदिना संन्यासः । सर्वेति । वेदवेदान्तशास्त्रस्य सर्वशास्त्ररूपस्य सामञ्जस्यात् किं पुनस्तदन्तर्गतस्य निन्दाद्वयस्य । तदिति । १. तत्कल्पनानवकाशादिति रश्मिपाठः। २. प्रकाशे तत्र त्यागादीति, रश्मौ ततस्त्यागादीति । 2063