अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2191, कुल 2600 में से
संदर्भ में पढ़ें४६२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ४ अ० १ सू० ११. ननु दृष्टफलका अपि कारीरीचित्रादियागाः श्रूयन्त इति नैवं निर्णय इति चेत् । उच्यते । नित्यकर्मणो हि ज्ञानसाधनत्वमुच्यते । व्रीहिपश्वादीनां तन्निवा- भाष्यप्रकाशः। त्वेन दुर्बलत्वात्नोक्तं साधीय इति शङ्क्यम्। स्वर्गकामपदावयवभूतस्वर्गपदस्यात्मसुखे लोके च शक्तेः किमत्राभिप्रेतमिति सन्देहे प्रसिद्ध्यपेक्षया वाक्यशेषस्य बलिष्ठत्वात् त्वदभिमतस्य वाक्यशेषे- ऽनुपपन्नादात्मसुखस्यैव वाक्यशेषे सिद्धेस्तदभिप्रायेणैव तेषु वाक्येषु स्वर्गकामपदस्योक्तेः। नचात्र किं गमकमिति शङ्क्यम्। एवमात्मसुखस्य तत्रोक्तत्वे सति तस्यात्मज्ञानसापेक्षतयोक्तश्रुत्येकवा- क्यता सिध्येत्, अन्यथा तु विरोध एव। स च सम्भवत्येकवाक्यत्वेऽयुक्त इति सर्वसामञ्जस्य- स्यैव गमकत्वात्। अतो वाक्यशेषोक्तमेवाङ्गीकार्यमित्यर्थः। अत्र कश्चिदाशङ्कते नन्वित्यादि। तथाच श्रुत्यन्तरे तथादर्शनात् स्वर्गपदस्य प्रसिद्धा- र्थाङ्गीकार एव युक्तः, न तु वाक्यशेषोक्तार्थाङ्गीकारः। तथा सति 'सुवर्गाय वा एतानि लोकाय हूयन्त' इत्यादिकं युज्येत। अन्यथा तद्विरोधापत्तेरित्यर्थः। अत्राभिदधते नित्येत्यादि। उक्तश्रुतौ हि नित्यस्य कर्मणस्तथात्वमुच्यते। नित्यं च कर्म तदैव साङ्गं भवति, यदा शुद्धैर्द्रव्यादिभिरुपसम्पद्यते। अन्यथा 'चाण्डालो जायते यज्ञकरणा- रश्मिः। गोचरत्वेन तादृशविरोधस्यैकाङ्गसहानवस्थानरूपस्य दुर्बलत्वादित्यर्थः। नोक्तमिति। एकवाक्यानु- कूलत्वेन कर्मणाममुख्यत्वम्। शङ्क्यमिति। तेन भाष्ये वाच्यमित्यत्र तर्कवाग्विवक्षा बोध्या। त्वद- भिमतेति भाष्यं विवृण्वन्ति स्म स्वर्गकामपदेति। वाक्यशेषस्येति। 'यन्न दुःखेन संभिन्नं न च ग्रस्तमनन्तरम्। अभिलाषोपनीतं च तत्सुखं स्वःपदास्पद'मिति वाक्यशेषस्य। अभीति। ज्ञानप्रकरणात् त्वदभिमतस्येत्यपि। प्रसिद्ध्यभिमतस्य। एवकारेण लोकव्यवच्छेदः। तदभीति। आत्मसुखाभि- प्रायेणैव। ज्ञानप्रकरणादेवकारः। तेष्विति। स्वर्गविषयेषु कामेषु सत्सु। सति सप्तम्यन्तम्। एवं सतीति भाष्यं विवरीतुमाहुः न चात्रेति। विवृण्वन्ति स्म एवमात्मेति। तत्रेति। वाक्यशेषे। तस्यात्मेति। आत्मसुखस्य स्वानुभवात्मज्ञानसापेक्षतया। उक्तेति। भाष्योक्त'तमेतं वेदानुवचनेने'ति श्रुत्येकवाक्यता। सा चेत्यम्। स्वर्गपदघटितवाक्ये आत्मसुखं स्वर्गपदेन ज्ञानप्रकरणात्, तत्र वेदानु- वचनं साधनम्, न तु ज्ञानवत् फलजनने स्वतन्त्रमिति। एवं सिध्येदित्यर्थः। अन्यथेति। उभयसमुच्चये तु शुकादिषु कर्माभावात् सहानवस्थानविरोध एव। सर्वेति। अधिकारानुसारेण श्रुतिसामञ्जसं जिज्ञासा- सूत्रभाष्योक्ते ज्ञानकर्मणोः परस्पराङ्गित्वे, श्रुत्योर्विरोधे विकल्प इति मनुस्मृते च सामञ्जसम्। तस्येत्यर्थः। अत इति। गमकत्वात् ज्ञानप्रकरणाच्च, आभ्याम्। नन्वित्यादीति। कारीरीति। 'कारीर्या यजेत वृष्टिकामः' 'चित्रया यजेत वृष्टिकामः' इति श्रुती। आदिना 'विश्वजिता यजेते'ति। अत्र स्वर्गः फलम्। 'स स्वर्गः स्यात् सर्वान् प्रत्यविशिष्टत्वा'दिति जैमिनिसूत्रात्। फलं स स्वर्गः स्यादिति विधेयलिङ्गम्। सर्वान् यागान् प्रति। अविशिष्टत्वादिति सूत्रार्थः। नैवमिति। न वाक्य- शेषेण निर्णयः, प्रसिद्धिप्रायपाठाभ्यां प्रसिद्ध्यैव निर्णयः। श्रुत्यन्तरेणेति। प्रायपाठावेदककारीर्यादि- श्रुत्यन्तरेण। तथेति। दृष्टफलत्वस्य फले दर्शनात्। युज्यत इति। लोकपदघटिता युज्यते। तद्विरोधेति। लोकपदविरोधापत्तेः। अभिदधत इति। सिद्धान्तमभिदधते। उक्तेति। 'तमेतं वेदानुवचनेने'ति श्रुतौ। कर्मण इति साङ्गस्य। निष्पन्नेऽपि 'यथा कथञ्चिन्नित्यस्य सिद्धिर्वेदेन बोध्यते' १. प्रकाशे युज्येत, रश्मौ युज्यते। 2062