भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2190, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2190

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ४६१ रमृतास्ते भवन्त्यथेतरे दुःखमेवोपयन्ती'त्यादिरूपा । एतच्च निन्दामात्रेण साम्यमु- क्तमापाततः । वस्तुतस्तु 'तमेतं वेदानुवचनेन विविदिषन्ति ब्रह्मचर्येण तपसा श्रद्धया यज्ञेनानाशकेन चैतमेव विदित्वा मुनिर्भवत्येनमेव प्रव्राजिनो लोकमी- प्सन्तः प्रव्रजन्ती'ति श्रुत्या ज्ञानसाधनत्वेनैवाश्रमकर्मकरणोक्तेश्च न स्वातन्त्र्यं कर्मणो वक्तुं शक्यम् । अत एव शुकस्य न ब्रह्मचर्यादिकमपि । फलस्य जातत्वेन तत्साधनानपेक्षणात् । नच स्वर्गकामपदश्रवणान्नैवमिति वाच्यम् । त्वदभिमतलो- कात्मकस्वर्गं 'यन्न दुःखेन सम्भिन्न'मिति वाक्यशेषोक्तस्वर्गपदप्रवृत्तिनिमित्त- धर्माभावादात्मसुखस्यैव तादृशत्वात्तस्यैव तत्रोक्तेः । एवं सति 'तमेतं वेदानुवच- नेने'तिश्रुत्येकवाक

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 2190, कुल 2600 में से · BharatKosha